न्यायकोशः /579
This page has been fully proofread once and needs a second look.
५२५
धर्मविशिष्टधर्मिप्रतिपादकं वचनम् ( त० मा० पृ० ४३ ) ( त० दी० २
पृ० २२ ) । यथा पर्वतपक्षकवह्निसाध्यकस्थले पर्वतो वह्निमान् इति
वाक्यं प्रतिज्ञा । साध्यतावच्छेदकावच्छिन्नसाध्यप्रकारकपक्षतावच्छेदका-
वच्छिन्न पक्षविशेष्यकबोधजनको न्यायावयवः इत्यर्थः (नील० २
पृ० २२ ) ( दीधि ० ) । अत्र निगमनवारणाय च साध्यांशे साध्य-
तावच्छेदकातिरिक्ताप्रकारकत्वं वाच्यम् । तदर्थश्च साध्यतावच्छेदक-
प्रकारताविलक्षणप्रकारताशून्यत्वम् । तेन प्रमेयवतः साध्यत्वे नासिद्धिः ।
उदासीनवारणाय च न्यायान्तर्गतत्वे सति इति विशेषणीयम् । न्यायान्त-
र्गतत्वे सति प्रकृतपक्षतावच्छेदकावच्छिन्नपक्षकप्रकृतसाध्यतावच्छेदका-
3
वच्छिन्नसाध्यविषयताविलक्षणविषयताकबोधाजनकत्वे सति प्रकृतपक्षे
प्रकृतसाध्यबोधजनकत्वं तत् । प्रतिज्ञात्वावयवत्वादिकं परिभाषाविशेष-
•
विषयत्वरूपम् तत्तद्व्यक्तित्वरूपं च ( गो० वृ० १ । १ । ३३ ) । उदाहर-
णाच न पक्षतावच्छेदक विशिष्टे साध्यवैशिष्ट्यज्ञानम् । उपनयाच्च न
पक्षतावच्छेदकविशिष्टे साध्यतावच्छेदकविशिष्टवैशिष्ट्यज्ञानम् इति तयो-
युदासः ( दीधि० २ अवय० पृ० १६७ ) । [ग] अनुमेयोद्देशः
अविरोधी प्रतिज्ञा । प्रतिपिपादयिषितधर्मविशिष्टस्य धर्मिणोपदेशविषया-
पादनार्थमुद्देशमात्रम् । यथा द्रव्यं वायुः इति । अविरोधिग्रहणात् प्रत्यक्षा-
•
नुमानागमस्वशास्त्रस्ववचनविरोधिनो निरस्ता भवन्ति । यथा अनुष्णोग्निः
इति प्रत्यक्षविरोधी । घनमम्बरम् इत्यनुमानविरोधी । ब्राह्मणेन सुरा पेया
इत्यागमविरोधी । वैशेषिकस्य सत्कार्यम् इति ब्रुवतः स्वशास्त्रविरोधी ।
न शब्दोर्थप्रत्यायकः इति खवचन विरोधी ( प्रशस्त ० २ पृ०२८) ।
<प्रतिज्ञान्तरम्
(निग्रहस्थानम् ) [ क] प्रतिज्ञातार्थप्रतिषेधे धर्मविकल्पा-
तदर्थनिर्देशः प्रतिज्ञान्तरम् ( गौ० ५/२/३ ) । प्रतिज्ञातार्थः अनित्यः
शब्द: ऐन्द्रियकत्वाद्धटवदित्युक्ते योस्य प्रतिषेधः प्रतिदृष्टान्तेन हेतुव्यभि-
चार: सामान्य मैन्द्रियकं नित्यम् इति । तस्मिंश्च प्रतिज्ञातार्थप्रतिषेधे । धर्म-
विकल्पादिति । दृष्टान्तप्रतिदृष्टान्तयोः साधर्म्ययोगे धर्मभेदात्सामान्य-
-