2023-10-29 05:39:24 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

५२४
 
न्यायकोशः ।
 
भाषा प्रतिज्ञा पक्ष इति नार्थान्तरम् ( मिताक्षरा अ० २ श्लो० ६ ) ।

भाषाशब्दे दृश्यम् । अत्र प्रतिज्ञालक्षणमाह याज्ञवल्क्यः । प्रत्यर्थिनोप्रतो

वेतमर्थिन । समामासतदर्धाहर्नामजात्यादिचिह्नितम् ॥

इति (वीरमि० २ पृ० ६१ ) । ३ अङ्गीकारः इति काव्यज्ञा आहुः ।

४ न्यायावयवः । यथा पर्वतो वह्निमान् इति प्रतिज्ञावाक्यम् । पक्षज्ञानं

प्रतिज्ञायाः प्रयोजनम् (त० दी० २ पृ० २२ ) । लक्षणं च प्रतिज्ञा-

त्वमेव । तच्चात्र हेत्वभिधानप्रयोजक जिज्ञासाजनकवाक्यत्वम् । लिङ्गाविषय-

कलिङ्गिविषयकज्ञानजनकन्यायावयवत्वं (चि० २ अव० पृ० ७७) वा ।
 

इतरान्वितस्वार्थबोधकत्वे सति स्वीयं यदन्त्यभिन्नं पदं तदर्थविशेष्यका-

न्वयबोधजनकत्वे सति न्यायावयवत्वं वा । अथवा अन्त्यपदवत्त्वे सति

स्वीयानन्त्यपदार्थ विशेष्यकान्वयबोधाजनकान्यत्वे सति न्यायावयवत्वम्

( दीघि ० २ पृ० १७७ ) । यद्वा एतन्न्यायघटकः पर्वतो वह्निमान् इति

यः शब्दः तद्वृत्त्यवयवविभाजको पाधिमत्त्वम् (न्या० म० २१० २३ ) ।

प्रतिज्ञात्वं जातिः इति केचिदाहुः ( चि० २ अव० पृ० ७७) ।

वस्तुतस्तु प्रतिज्ञात्वमखण्डोपाधिरेव इत्यन्ये आहुः ( म० प्र० २

पृ० ३३ ) । प्रतिज्ञावाक्यं च उद्देश्यानुमितिहेतु लिङपरामर्शप्रयोजक

शाब्दज्ञानजनकत्वे सत्युद्देश्यानुमित्यन्यूनानतिरिक्त विषयकशाब्दज्ञा

वाक्यम् । सत्यन्तस्य प्रकृतन्यायावयवत्वं पर्यवसितार्थः । तेन प्रकृत-

न्यायबहिर्भूतवाक्यवारणम् ( दीधि० २ अवय० पृ० १६७ ) । एक-

मग्रेपि बोध्यम् । अथवा उद्देश्यानुमितिहेतुलिङ्गपरामर्शप्रयोजकशाब्दज्ञान-

( चि० २ अवय० पृ० ७७ ) । सा च प्रतिज्ञा क] साध्य निर्देश:

जनकत्वे सत्युद्देश्यानुमितिविषयकलिङ्गाविषयकशाब्दज्ञानजनकं वाक्यम्

प्रतिज्ञा ( गौ० १ । १ । ३३ ) । प्रज्ञापनीयेन धर्मेण धर्मिणो विशिष्टत्

परिग्रहवचनं प्रतिज्ञा । साध्यनिर्देशः अनित्यः शब्दः इति (वात्स्या

१ । १ । ३३ ) । साधनीयस्य अर्थस्य यो निर्देशः स प्रतिज्ञा । तथा च

पक्षतावच्छेदक विशिष्टपक्षे साध्यतावच्छेदकविशिष्टवैशिष्टयबोधको न्याया

वयवः इत्यर्थः । साधनीयश्च वह्निमत्त्वादिना पर्वतादिः ( गौ०