This page has not been fully proofread.

५२२
 
न्यायकोशः ।
 
प्रतान: - प्रतानाः काण्डप्ररोहरहिताः सरलयायिन्यः सारिवाप्रभृतयः
( मिताक्षरा अ० २।२२९ ) ।
 
प्रति – ( अव्ययम् ) १ सादृश्यम् । यथा प्रतिदेवता इत्यादौ । २ आदा-
नम् । यथा प्रतिगृह्णाति इत्यादौ । ३ हिंसा । यथा प्रतििहन्ति इत्यादौ ।
४ अङ्गीकारः । यथा प्रतिज्ञानम् इत्यादौ । ५ प्रतिनिधीकरणम् ।
यथा अभिमन्युरर्जुनतः प्रति इत्यादौ । ६ व्याधिः । यथा प्रतिश्यायः
इत्यादौ । ७ आभिमुख्यम् । यथा प्रतिसूर्य गतः इत्यादौ । ८ व्याप्तिः ।
• यथा प्रतिकीर्ण पांशुभिः इत्यादौ । ९ वारणम् । यथा प्रतिषिद्धः
इत्यादौ ( गण० टीका० ) ( वाच० ) । १० प्रतिदानम् । यथा
. विद्योतते विद्युत् इत्यादौ । अत्र प्रतेः सादृश्याद्यर्थविशेषेषु द्योतकत्वमेव
तिलेभ्यः प्रतियच्छति माषान् इत्यादौ । १९ लक्षणम् । यथा वृक्षं प्रति
 
न तु वाचकत्वम् इति ज्ञेयम् ।
 
प्रतिकूलत्वम् – १ द्वेषविषयत्वम् (मु० गु० पृ० २२०) । यथा
दुःखस्य द्विष्टत्वरूपं प्रतिकूलत्वम् । २ विरुद्धपक्षावलम्बित्वम् इति
 
काव्यज्ञा आहुः ।
 
-
 
प्रतिग्रहः - [क] स्वस्वत्वजनकेच्छारूपस्वीकार विशेषः । यथा धनं प्रति-
गृह्णातीत्यादौ धात्वर्थः । अत्र स्वस्वत्वरूपफले द्वितीयार्थाधेयत्वान्वयः
(ग० व्यु० का० २ पृ० ४३ ) । अत्र मतविशेषो ज्ञेयः । दानस्यैव
स्वस्वत्वध्वंसमिव परस्वत्वोत्पत्ति प्रति जनकता । प्रतिग्रहस्य तु न स्वत्व-
जनकता । अपि तु दानेनोत्पन्नमपि स्वत्वं संप्रदानव्यापारेण प्रतिग्रहेण
यथेष्टविनियोगार्हं क्रियते इति जीमूतवाहनमतम् (जीमूतवा० दायभाग
वीरमित्रो० २ पृ० ५४३ ) । अत्र प्रमाणम् मनसा पात्रमुद्दिश्य इत्यादि
शास्त्रम् । अयं भावः । प्रतिग्रहस्य स्वत्वजनकत्वं यदि स्वीक्रियेत तदा
देशान्तरस्थं पात्रमुद्दिश्य यद्धनं ददाति तत्पात्रमरणानन्तरं तत्पुत्राण
• तद्धने तत्पितृस्वत्वानुत्पत्त्या स्वत्वाभावेन प्रवृत्तिर्न स्यात् । अतः प्रति-
• ग्रहस्यापि स्वत्वजनकत्वं नाङ्गीकर्तव्यम् इति । विदेशस्थं पात्रमुद्दिश्य
' व्यक्तधने स्वीकारमन्तरेणैव पात्रस्य मरणस्थले पितृदायत्वेन तद्धनं
पुत्रादिभिर्विभज्य गृह्यते । अन्यथा तैरिवोदासीनैरपि तद्धनस्यारण्य