2023-10-29 05:37:12 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

न्यायकोशः ।
 
वयवान्तरासंयोगिन्यवयवे वर्तमानः संयोगः प्रचयः । तेन परमाणुसंयोगो

व्यणुकसंयोगो वा न प्रचयः इत्याहुः (दि० गु० पृ० २०५ ) । २ साहि-

त्यम् ( कि० व० ५ ) । ३ चयनम् । यष्ट्यादिना वृक्षाग्रस्थानां पुष्पाणां

प्रचयः इत्येव ( सि० कौ० कृद० पृ० ३४२ ) । अत्र व्याकरण-

नियमः । हस्तादाने चेरस्तेये (पा० सू० ३ ३ । ४० ) । हस्तादाने तु घम् ।

हस्तेन पुष्पप्रचाय इत्येव । चौर्ये तु अच् । प्रचय इत्येव । चौर्येण

पुष्पादेः प्रचयः इति । ४ समूह: । ५ उपचय इति काव्यज्ञा आहुः ।

६ उदात्तानुदात्तखरितेभ्यो व्यतिरिक्तश्चतुर्थः स्वर एकश्रुतिः । तां चाभ्या-

पकाः प्रचयः इत्याचक्षते (जै० न्या० अ० ९ पा० २ अधि० ९ ) ।

 
<
प्रज्ञाज्योतिः.
भूतेन्द्रियजयी योगिविशेष: (सर्व० सं० पृ० ३८४ पात०) ।

 
<
प्रज्ञापनम् -.
१ उदाहरणम् । एतदर्थे वात्स्यायनभाष्यं ( १/२/७ ) द्रष्ट-

व्यम् । २ बोधनम् ।
 

 
<
प्रणति:-
>
<
प्रणाम:-
-
 
-
 
>
( नमस्कारः ) स्वापकर्षबोधकः करशिरः संयोगादिव्यापारः ।
 

यथा पञ्चां कराभ्यां जानुभ्यामुरसा शिरसा दृशा । वचसा मनसा

चैव प्रणामोष्टाङ्ग उच्यते ॥ इति । बाहुभ्यां चैव जानुभ्यां शिरसा

वचसा दृशा । पञ्चाङ्गोयं प्रणामः स्यात्पूजासु प्रवरः स्मृतः ॥ इत्यादौ
 

च ( वाच० ) ।
 

 
<
प्रणिधानम् - >
१ सुस्मूर्षया (स्मर्तुमिच्छया) मनसो धारणम् (वात्स्या

३।२।४२ ) । २ मनसो विषयान्तरसंचारवारणम् ( गौ० वृ० ३।२।४२) ।

इदं च स्मृतेरुद्बोधकरूपं निमित्तं बोध्यम् । अत्र भाष्यम् सुस्मूर्षित-

लिङ्गचिन्तनं चार्थस्मृतिकारणम् इति (वात्स्या० ३।२।४२) । ३ योगि

नस्तु चिन्तनविशेषरूपः समाधिविशेषः इत्याहुः । ४ भक्तिविशेषः

( पात० यो० सू० १ । २३ ) । ५ अर्पणम् । ६ कर्मणां फलत्यागः

(पात० यो० सू० २११) । ७ प्रयत्नः । ८ अभिनिवेश: इति
 

काव्यज्ञा आहुः ।

६६ न्या० को०
 
-