This page has not been fully proofread.

न्यायकोशः ।
 
कश्छन्दोविशेषः प्रकृतिः इति छन्दःशास्त्रज्ञा आहुः । १६ व्याकरण-
शास्त्रोक्तकर्मविशेषः ( विकार्यम् ) । यथा काशाकटं करोति इत्यादौ
· काशादि प्रकृतिकर्म इति ।
प्रकृतिविकृतिः—–महदाद्याः
 
प्रकृतिविकृतयः सप्त इति । अस्यार्थः ।
 
• प्रकृतयश्च ता विकृतयश्चेति प्रकृतिविकृतयः सप्त महदादीनि तत्त्वानि
( सर्व० सं० पृ० ३१७ सांख्य ० ) ।
 
प्रक्रिया - १ निरूपणम् ( दि० गु० पृ० १९८) । यथा नवक्षणा
प्रक्रिया दशक्षणा प्रक्रिया एकादशक्षणा प्रक्रिया (मु० गु० पृ० १९८)
इत्यादौ । २ पक्षप्रतिपक्षयोः प्रवृत्तिः । यथा अनित्यः शब्दः प्रयत्ना-
• नन्तरीयकत्वाद्धटवत् इत्येकः पक्षं प्रवर्तयति । द्वितीयश्च नित्यसाधर्म्यात्
श्रावणत्वात् नित्यः शब्दः इति ( वात्स्या० ५ । १ । १६) ।
व्युत्पत्तिः । प्रक्रिया प्रकर्षेण क्रिया साधनम् । विपरीतसाधननिति
• फलितार्थः इति ( गौ० वृ० ५/१/१६ ) । ३ शब्दप्रयोगसाधनावस्था
प्रक्रिया इति शाब्दिका आहुः । ४ प्रकरणम् सा प्रक्रिया या कम्
इत्यपेक्षा इति पार्थसारथिमिश्र आह । ५ अधिकारः । ६ नृपादीनां चामर-
व्यजनच्छत्रधारणादिव्यापारः इति काव्यज्ञा आहुः ।
 
गु० श्लो०
 
प्रचयः-१ [क] शिथिलाख्यः संयोगः । यथा यत्र द्वाभ्यां तूलक-
पिण्डाम्यां प्रचययुक्ताभ्यां तूलक पिण्डान्तरमारब्धम् तत्र परिमाणोत्कर्ष-
दर्शनात् शिथिलाख्यसंयोगरूपः प्रचयस्तादृशावयविपरिमाणस्यासमवायि-
कारणम् (वै० वि० ७१११९) (वै० उ० ७१११९) (भा० ५०
T० ११३ ) । अत्र प्रचयश्चारम्भकः संयोगः । स च स्वाभि-
मुखकिंचिदवयवासंयुक्तत्वे सति स्वाभिमुखकिंचिदवयवसंयोगलक्षणः ।
• स त्ववयवसंयोगः स्वावयवप्रशिथिलसंयोगापेक्षः परिमाणजनकः / गुण-
[ख] किंचिदवयवावच्छेदेनावयवान्तरासंयोगिनि महत्यवयवे वर्तमानः
कर्मारम्भे सापेक्षः इति वचनात् (वै० उ० ७११९) (त० व० ) /
संयोगः इत्येके वदन्ति । अन्य आहुः । अत्र महत्पदं न देयम् । परमाणु-
संयोगस्य प्रचयत्वे क्षतिविरहात् इति । अपरे तु भूयोवयवावच्छेदेना-
५२०
 
-