2023-10-29 05:33:30 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

५१८
 
न्यायकोशः ।
 
तेन
 
चात्र हेतुपञ्चमी । गुणातिरिक्त हेतौ पञ्चम्यनुशासनविरहात् ( ग० व्यु०

का० ५ पृ० १०८) । अत्र गुणत्वं च स्वप्रयोज्याश्रयवृत्तित्वम् ।

बहिमान् घूमादित्यादौ घूमस्य गुणत्वप्राप्त्या विभाषा गुणेस्त्रियाम्
[^१]याम्
( पा० सू० २/३/२५ ) इत्यनेन धूमपदात्तृतीपञ्चम्यौ गच्छे

(ग० अवय० हेतु ० ) । अत्र समवाय असमवायि निमित्त एतत्रितय -

साधारणं कारणत्वम् । न तु समवायिकारणत्वमात्रं विज्ञेयम् ।

दण्डाइटो जायत इति प्रयोग इष्यते । अत एव यतो द्रव्यं गुणाः

इत्यादौ पञ्चमी ( ग० व्यु० का० ५ पृ० १०८) । यतः ईश्वरात् ।

अथ वा केवलं समवायिकारणम् (वै० वि० ) ( वै० उ० ८/२१५ ) ।

यथा पृथिवी ग[^२]न्धज्ञाने (घ्राणे) प्रकृतिः (वै० सू० ८/२/५ ) इत्यादौ ।

अथवा वजनकनाशप्रतियोगि। यथा दुग्धं दनः प्रकृतिः ( राम० १

१० पृ० ६८) । यथा वा महापट: खण्डपटस्य प्रकृतिः
 
तेन
कर्म
 

(मु० १
पृथिवीं
 
(मु० १ पृथिवीं
० ) । स्वजनकेत्यस्यार्थश्च स्वम् दधि । तस्य जनको

यो नाशः दुग्धनाशः तस्य प्रतियोगि दुग्धम् तत्वं दुग्धे इति । एवम्

खण्डपटस्य जनकीभूतो नाश: महापटनाशः तत्प्रतियोगित्वं महापटादी

इति द्रष्टव्यम् । ३ यावदाश्रयभाविधर्मः । यथा प्रकृत्या कृपणः स्वभा

वेन सरलः इत्यादौ । अत्र तृतींयार्थश्चाभेदस्तादात्म्यं वा ।
 
एवं च
 

स्वाश्रयाधिकरणयांवकालवृत्तिकार्पण्यवान् इत्याकारस्तत्र बोधः । अत्र
 

प्रकृत्यादिभ्य उपसंख्यानम् (वार्तिकम् ) इत्यनेन तृतीया विधीयते ( १०
 

प्र० श्लो० ९३ टी० पृ० १२४) । ४
 
यत्र
 
स्वभावः । ५
 
मीमांसकास्तु
 

समप्राङ्गोपदेशः सा प्रकृतिः । यथा दर्शपूर्णमासादिरूपप्रधानयागः

प्रकृतिः (इष्टयग्निहोत्रसोमाः प्रकृतयः ) ( लौं० मा० पृ० २३) इत्याहुः ।
 

अत्रेदं बोध्यम् । यत्र कर्तव्यं सर्वे प्रकर्षेण कर्मा
 

सा प्रकृतिः । यत्र विशेषरूपमेव कर्तव्यं श्रुत्योपदिश्यते इतरत्सर्वे

कर्मान्तरादतिदिश्यते सा विकृति: ( वाच ० ) । तत्रापि मूलप्रकृतिः

अवान्तरप्रकृतिः इति प्रकृतेर्हेविध्यादिकं तु विस्तरभयान्नोच्यते इति ।
 

 
[^
] अस्त्रियामिति पदच्छेदः ।
[^
] गन्धो ज्ञायते अनेन तत् । घ्राणेन्द्रियमित्यर्थः ।