2023-10-29 05:27:36 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

न्यायकोशः ।
 
प्रकारता -
<प्रकारता>
१ ( विषयता ) [ क ] विशेषणत्वापरनामा विलक्षणविषय-

ताविशेषः ( नील० १ पृ० १७ ) । यथा अयं घटः इति ज्ञाने विशे-

षणस्य घटत्वादेर्विशेषणत्वापरनामा विषयता विशेषः ( न्या० म० १

पृ० ४ ) । [ख] अन्ये तु भासमान वैशिष्ट्यप्रतियोगित्वम् ( न्या० म० १

पृ० ५) । संसर्गावच्छिन्नविषयतेति यावत् (नील० १ पृ० १७ )

( सि० च० ) । अत्र विशेष्यतासंसर्गतयोस्तु किंचित्संबन्धावच्छिन्नत्वम-

प्रामाणिकम् इति सिद्धान्तोनुसर्तव्यः । तथा च संसर्गावच्छिन्नत्वं प्रकार -

ताया एवं इति भावः । यथा अयं घटः इत्यत्र घटत्वस्य वैशिष्ट्यं भासते

तत्प्रतियोगि च घटत्वम् इत्याहुः ( न्या० म० १ पृ० ५ ) ।

[ग] अपरे तु ज्ञायमान विशेषणप्रतियोगिकसंसर्गावच्छिन्नविषयत्वम्

इत्याहुः (वाच० ) । २ विषयतानात्मिका प्रतियोगित्वादिनिरूपिता-

वच्छेदकतातुल्यावच्छेदकताविशेषरूपा प्रकारता इति कश्चिदाह ( ग०

बाघ० पृ० २) । यथा पक्षनिष्ठप्रमाविषयत्वप्रकाराभावप्रतियोगिसाध्यकत्वं

बाध: ( चि० २ हेत्वा० पृ० १०३) इत्यत्र तादृशविषयत्व निरूपिता

अभावनिष्ठा प्रकारता । हदो वह्निमान् धूमादित्यादौ पक्षः साध्याभाव-

वान् इति ज्ञाने पक्षनिष्ठप्रमाविषयत्वस्य प्रकारः साध्याभावः इति लक्षण-

समन्वयः ( दीधि ० २ पृ० २१८) । सप्रकारकत्वं विषयताया एव

नतु ज्ञानस्य इत्यतिरिक्त विषयतावाद्येकदेशिमताभिप्रायकमतिसूक्ष्मतर-

मेतत् । प्रकारताश्रयश्च विशेषणोपलक्षणभेदेन द्विविधो बोभ्यः ।
 

 
<
प्रकाश:>
१ ज्ञानम् । यथा अर्थप्रकाशो बुद्धिः इत्यादौ ( त० मा० )

( त० प्र० ) । अत्र वैशेषिका आहुः प्रागप्रकाशरूपस्य जडस्यात्मनो

मनः संयोगाज्ज्ञानाख्यः प्रकाशो जायते इति ( सांख्य० प्र० मा० अ० १

सू० १४५ ) । २ तेजः । यथा प्रचुरप्रकाशो रविरित्यादौ । तमो

विरोध्याकारों हिं प्रकाशशब्दवाच्यः ( सर्व० सं० पृ० ४५७ शां० ) ।

३ ज्ञानस्वरूप आत्मा प्रकाशः इति सांख्या आहुः । अत्र सूत्रम्

जडप्रकाशयोगात् प्रकाशः इति ( सांख्य० सू० अ० १ सू० १४५ ) ।

अस्मिन्मते प्रकाशत्वं च तेजःसत्वचैतन्येष्वनुगतमखण्डोपाधिः अनुगत-
BALAD
 
-