This page has not been fully proofread.

५१४
 
न्यायकोशः ।
 
सत्प्रतिपक्ष उच्यते । यथा शब्दो नित्यः अनित्यधर्मानुपलब्धेः इति
शब्द: अनित्यः नित्यधर्मानुपलब्धेः इति च ( त० भा० पृ० ४९ ) ।
अत्र च विपरीतार्थसाधकं समानबलमनुमानान्तरं प्रतिपक्ष इत्युच्यते ।
यथा शब्दः अनित्यः नित्यधर्मानुपलब्धेः इति । यत्पुनरतुल्यबलम् न
स प्रतिपक्षः। तथाहि। विपरीतार्थसाधकानुमानं त्रिविधम् । उपजीव्यम्
उपजीवकम् अनुभयं चेति । तत्राद्यम् बाधकम् । बलवत्त्वात् । यथा
अनित्यः परमाणुर्मूर्तत्वादिति । अस्य हेतोः परमाणुसाधकानुमानं नित्यत्य
• साधयदपि न प्रतिपक्षः। किंतु धर्मिग्राहकं ( परमाण्वात्मकस्यानित्यत्व-
रूपसाध्यधर्मिणो ग्राहकम्) प्रमाणं बाधकम् । उपजीव्यत्वेन बलवत्वात् ।
नही प्रमाणेनागृह्यमाणे धर्मिणि परमाणौ परमाण्वनित्यत्वानुमान
संभवति । आश्रयासिद्धेः इति । तथा च तारतम्यपक्षकानुमानं न
समानबलम् । किंतु अधिकबलम् इति तत् परमाण्वनित्यत्वानुमानं प्रति
बाधत एवेति न तत् प्रतिपक्षः इति भावः । परमाणुसाधकानुमानं च
अणुपरमाणतारतम्यं क्वचिद्विश्रान्तम् । परिमाणतारतम्यत्वान्महत्परिमाण-
तारतम्यवत् इति ( त० मा० पृ० ४९ ) । द्वितीयं दुर्बलत्वाद्वाध्यम् ।
( त० मा० पृ० ४९ ) । व प्रतिरुद्धः प्रकरणसमः स्यात्प्रतिसाधनैः
इदमेवानित्यत्वानुमानं स्यात् । तृतीयं तु सत्प्रतिपक्षः । तुल्यबलवत्त्वात् इ
( ता० र० श्लो० ८३ ) । [ङ ] तुल्यत्वमभ्युपेत्यैव परहेतोः स्खहेतुना ।
• बाधेन प्रत्यवस्थान परस्य प्रक्रियासमः ॥ (ता० २० २ श्लो० ११७) ।
प्रकार: - १ सामान्यस्य भेदको विशेषः ( लौ० भा० टी० पृ०८ ) ।
यथा द्रव्यं नवविधमित्यादौ पृथिवीत्वादिकं द्रव्यस्य प्रकारः । यथा वा
प्रकारान्तरेण विभजते इत्यादौ । २ वक्ष्यमाणप्रकारतावान् (
पृ० ११८ ) । यथा दण्डवान्पुरुषः इति वाक्यजन्यबोधे दण्डः प्रकारः ।
तत्तदनिरूपकत्वं सर्वोशे याथार्थ्यम् ( ग० सामा० ) इत्यादौ प्रकारो
३ विशेषणम् । यथा स्वव्यधिकरणप्रकारावच्छिन्ना या या विषया
विशेषणम् । कचित् उपलक्षणमपि प्रकार: (चि० ) । ४ कचित्
 
-
 
mer
 
इति
 
(मु०
To १
 
सादृश्यमपि प्रकारशब्दार्थः । यथा प्रभृतिग्रहणं प्रकारार्थम् (सि०
 
पृ० २०) इत्यादौ ।
 
कौ9