2023-10-29 05:26:21 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

न्यायकोशः ।
 
५१३
 
साधकः एतयोः कः परामर्शः प्रमा इति वा यत्र जिज्ञासा भवतीत्यर्थः ।

यस्मादित्यादि तु वस्तुस्थितिमात्रम् ( गौ० वृ० ११२१७ ) । अत्र

भाष्यम् । विमर्शाधिष्ठानौ पक्षप्रतिपक्षावुभावनवसितौ प्रकरणम् । तस्य

चिन्ता विमर्शात्प्रभृति प्राङिर्णयाद्यत्समीक्षणम् । सा जिज्ञासा यत्कृता स

निर्णयार्थ प्रयुक्त उभयपक्षसाम्यात्प्रकरणमनतिवर्तमानः प्रकरणसमो

निर्णयाय न प्रकल्पते । प्रज्ञापनं तु अनित्यः शब्दो नित्यधर्मानुपलब्धेरिति ।

अनुपलभ्यमाननित्यधर्मकमनित्यं दृष्टं स्थाल्यादि (वात्स्या० ११२१७) ।

अस्मिन्नभिप्राये सूत्रार्थश्च निर्णयार्थ प्रयुक्तो हेतुर्यत्र निर्णयं जनयितुम -

शक्तस्तुल्यबलेन परेण प्रतिबन्धात् किंतु धर्मिणः साध्यवत्वम् तदभाव-

वत्त्वं वेति चिन्तां जिज्ञासां प्रवर्तयति स प्रकरणसमः इति ( गौ० वृ०

१।२।७ ) । प्रकरणसमस्य लक्षणं तु तुल्यबलविरोधिपरामर्शकालीन-

पररामर्शविषयत्वम् । स्वसाध्यपरामर्शकालीनतुल्य बलविरोधिपरामर्शो वा

(गौ० वृ० ११२ ७) इति । अन्यत्सर्वं सत्प्रतिपक्षवज्ज्ञातव्यम् । अत्रेदं

बोध्यम् । विरोधिपरामर्शस्य च हेतुनिष्ठत्वम् एकज्ञान विषयत्वसंबन्धेन

ज्ञेयम् । अन्यथा हेतोदुष्टत्वं न स्यात् । अयं च दशाविशेषे दोषः

इत्यतः सद्धेतोरपि विरोधिपरामर्शकाले दुष्टत्वमिष्टमेव इति ( गौ०

वृ० १।२।७ ) । [ ख ] निबन्धे तु प्रकृतसाध्यहेत्वोः किं तत्त्वम् इति

जिज्ञासाजनका व्याप्तिपक्षधर्मतोपस्थितिः तद्विषय: ( चि० २ हेत्वा

पृ० ९७ ) ( म० प्र० २१ २७ ) । अत्र जिज्ञासा च प्रकृतसाध्यहेत्वोः

कः समीचीनः इत्याकारिका ग्राह्या ( ग० सप्र० पृ० २३) । तथा

च अनयोः किं तत्त्वम् इति जिज्ञासैव सत्प्रतिपक्षफलम् इति बोध्यम्

(चि० २ हेत्वा० पृ० ९७ ) ( ग० सत्प्र० पृ० २२) (म० प्र० २

पृ० २७ ) । तदर्थश्च यादृशपरामर्शसहकारेण यादृशपरामर्शस्योक्त-

जिज्ञासाजनकत्वं तादृशपरामर्शसहितता दृशपरामर्श: इति ( ग० सत्प्र०

वान् बहुयभावव्याप्यजलवान् इति परामर्शद्वयसंवलनदशायां प्रकृतो

पृ० २३ ) । अत्र च पर्वते धूमेन वह्निसाधने पर्वतो वहिव्याप्यधूम-

घूमो हेतुः सत्प्रतिपक्षितः इति व्यवयित इत्यनुभवमनुसृत्येदं विज्ञेयम् ।
 

यस्य प्रतिपक्षभूतं हेत्वन्तरमस्ति स प्रकरणसमः । स एव
 
[ग] ]

६५ न्या० को०
 
12
 
O