This page has not been fully proofread.

न्यायकोशः ।
 
५१२
 
● भाष्यम् । कर्तव्यस्येतिकर्तव्यताकास्य
श्रुतिलिङ्गवाक्यप्रकरणस्थानसमाख्यानां
 
वचनं प्रकरणम् इति । यथा
समवाये पारदौर्बल्यमर्थ विप्रकर्षात्
 
(जै० सू० ३।३।१४ ) इत्यादौ ।[ख] संपन्नवाक्यैकवाक्यतारूपं
• प्रकरणम् ( ० न्या० अ० ३ पा० ३ अधि० ४ ) । ६ काव्यज्ञास्तु
अभिनेयनायकादिको दृश्यकाव्यविशेषः इत्याहुः । तलक्षणमुक्तम् ।
भवेत्प्रकरणे वृत्तं लौकिकं कविकल्पितम् । शृङ्गारोङ्गी नायकस्तु
मात्योथ वा वणिक् ॥ सापायधर्मकामार्थपरो धीरप्रशान्तकः इति ( सा०
५० परि० ६ श्लो० ५११ ) । तत्र विप्रनायकं मृच्छकटिकम् /
अमात्यनायकं मालतीमाधवम् । वणिनायकं पुष्पभूषितम् इति
 
विप्रो-
( सा० द०वृ० ६।२२५ ) ।
 
प्रकरणसमः - १ ( जाति: ) [क] उभयसाधर्म्या प्रक्रियासिद्धेः प्रकरण-
समः ( गौ० ५।१।१६ ) । तदर्थश्च उभयसाधर्म्यात् अन्वयसहचारात्
! ( व्यतिरेकसहचाराद्वा । प्रक्रिया प्रकर्षेण क्रिया साधनम् । विपरीतसाधन-
मिति फलितार्थः । तत्सिद्धेः तस्य पूर्वमेव सिद्धेः इति । बाघदेशनाभासोयम्
(गौ० वृ० ५।१।१६ ) । अत्र भाष्यम् । उभयेन नित्येन चानित्येन
साधम्योत् । पक्षप्रतिपक्षयोः प्रवृत्तिः प्रक्रिया । अनित्यः शब्दः प्रयत्ना-
नन्तरीयकत्वाद्धटवदित्येकः पक्षं प्रवर्तयति । द्वितीयश्च नित्यसाधर्म्यात् ।
रणमतिवर्तते । अनतिवृत्तेस्तन्निर्णयानिवर्तनम् । समानं चैतन्नित्यसाधर्म्येणो
एवं च सति प्रयत्नानन्तरीयकत्वादिति हेतुरनित्य साधर्म्येणोच्यमानो न प्रक-
च्यमाने हेतौ । तदिदं प्रकरणानतिवृत्त्या प्रत्यवस्थानं प्रकरणसमः । समानं
१ ५/१११६) । [ख] अधिकबलत्वेनारोपित प्रमाणान्तरेण बाधेन
चैतद्वैधर्म्येपि । उभयवैधर्म्यात्प्रक्रियासिद्धेः प्रकरणसम इति ( वात्स्या
प्रत्यवस्थानम् । यथा शब्द अनित्यः कृतकत्वादित्युक्ते नैतदेवम्
• श्रावणत्वेन नित्यत्वसाधकेन बाधात् ( गौ० वृ० ५/१/१६) । [ग]
• वायुक्तहेतोः साध्यविपरीतसाधकहेत्वन्तरोद्भावनम् । प्रतिपक्षण-
मेवात्रोदाहरणं बोध्यम् (नील० पृ० ४४ ) । २ ( हेत्वाभासः)
[क] यस्मात्प्रकरणचिन्ता स निर्णयार्थमपदिष्टः प्रकरणसमः ( गौ०
१।२।७ ) । सूत्रार्थस्तु प्रकृष्टं करणं लिङ्गं परामर्शो वा । को हेतुरनयोः