2023-10-29 05:22:11 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

५१०
 
न्यायकोशः ।
 

 
द्रवत्षम् संस्कारश्चेति ( प्रशस्त० पृ० ३ ) ( त० मा ० ) (भा०प० )

( त० सं० ) । तत्र रूपरसगन्धस्पर्शाश्चत्वारः पृथिव्यामेव पाकजा:

अन्यत्र जलादौ अपाकजा भवन्ति । एते चत्वारः पाकजा अपाकजा-

श्चापि नित्यायामनित्यायां च पृथिव्यामनित्या एव भवन्तीति विज्ञेयम्

( प्र० प्र० ) ( त० सं० ) । अत्र सूत्रम् पृथिव्यादिरूपरसगन्धस्पर्शा

द्रव्यानित्यत्वादनित्याश्च (वै० ७ ११२ ) इति । एतेन नित्येषु नित्यत्व-

मुक्तम् (वै० ७ १ ३) इति च । पृथिव्यां रूपादीनां गुणानां वृत्ति-

त्वेयं विवेकः । क्षितावेव गन्धः । रूपमनेकप्रकारं शुक्कादि । रसः

षडधो मधुरादिः । गन्धो द्विविधः सुरभिरसुरभिश्च । स्पर्शोस्या अनु-

ष्णाशीतत्वे सति पाकज: ( प्रशस्त० पृ० ३) । परिमाणं परममहत्त्वा-

अतिरिक्तम् । द्रवत्वं नैमित्तिकम्। संस्कारस्तु वेगः स्थितिस्थापकश्चेति ।

अनित्या पृथिवी च स्थैर्याद्यवयवसंनिवेशविशिष्टा अपरजातिब हुत्वोपेता

शयनासनाद्यनेकोपकारकरी च ( प्रशस्त० पृ० ३) । द्विविधायाः

पृथिव्या रूपरसगन्धस्पर्शाश्चानित्याः पाकजाच ( त० मा० अर्थ०

पृ० २७ ) । अनित्यपृथिव्यां विषयरूपायां पाषाणे वज्रं तु पार्थिवमपि

न लोहलेख्यम् । शक्तिभेदात् । अबिन्धनविद्युत्तेजोवत् इति ( न्या०

० पृ० १३ ) । मार्गगतधूलि: पृथिवी इति सर्वदर्शनसंग्रहे
 
ली०
 

( पृ० ७० ) उक्तम् ।
 

 
<
पृथिवीकायः>
इष्टकादिः ( सर्व० सं० पृ० ७० आई० ) ।
 
-
 

 
<
पृथिवीकायिकः>
पृथिवी कायत्वेन येन गृहीता स पृथिवीकायिकः
 

(सर्व० सं० पृ० ७० आई० ) ।
 

 
<
पृथिवीजीवः>
पृथिवीं कायत्वेन यो ग्रहीष्यति स पृथिवीजीवः ( सर्व०
 

सं० पृ० ७० आई० ) ।
 
८)।
 

 
<
पृषदाज्यम्>
दधिमिश्रमाज्यम् (जै ० न्या० अ० ५ पा० २ अधि०

 
<
पृष्ठस्तोत्राणि>
अभि त्वा शूर नोनुमः कया नश्चित्र आभुवत् तं बो दूस

मृतीषहम् तरोभिर्वो विदद्वसुम् एतानि क्रमेण रथंतरवामदेव्यनौधसकालेय-
-