2023-10-29 05:21:00 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

न्यायकोशः ।
 
पृ० १०२) । अत्रायं नियमः यद्रव्यं यद्रव्यध्वंसजन्यम् तद्रव्यं

तदुपादानोपादेयम् इति । दृष्टं चैतत् खण्डपटे महापटध्वंसजन्ये

(मु० १ पृथि० पृ० ६५ ) । भस्मखण्डपटयोरवयवानां पाषाणमहा-

पटयोरवयवानां चैक्यम् इति नियमस्याभिप्रायः । अत्र पृथिवीत्वं तु

पाकजरूपसमानाधिकरणद्रव्यत्वसाक्षाद्व्याप्यजातिः ( सर्व० सं० पृ०

२१८ औलू० ) । अत्र पृथिवीत्वजाति सिद्धिप्रकारस्तु दिनकर्यादिग्रन्थेषु

द्रष्टव्यः । विस्तरभयान्नोक्तः । लक्षणं च कटुरससमानाधिकरणद्रव्यत्वव्या-

प्यजातिमत्त्वम् गन्धसमानाधिकरण-गन्धासमानाधिकरणगुणासमाना-

धिकरणजात्यधिकरणद्रव्यत्वम् इत्यादि (वै० उ० २१११११० ६५ ) ।

अत्र द्रव्यपदप्रयोजनं चिन्त्यम् । पृथिव्या अध्यात्मादिभेदा यथा पृथिवी

पञ्चमं भूतं घ्राणं चाध्यात्ममुच्यते । अधिभूतं तथा गन्धो वायुस्तत्राधि-

दैवतम् ॥ इति (भा० आश्व० अ० ४२ ) । [ग] पृथिवीत्वजाति-

मती । यथा घटः पृथिवी । पृथिवी द्विविधा । नित्या अनित्या च ।

तत्र नित्या परमाणुलक्षणा । अनित्या कार्यलक्षणा । अनित्या त्रिविधा ।

शरीरम् इन्द्रियम् विषयश्च ( वै० ४।२।१ ) । तत्र शरीरम्

द्विविधम् योनिजम् अयोनिजं च (वै० ४।२।५ ) । तत्र योनिजमस्मदा-

दीनां शरीरं प्रत्यक्षसिद्धम् । अयोनिजं तु क्रिमिदंशादीनाम् । अयोनिजं

च अनपेक्ष्य शुक्रशोणितं देवर्षीणां शरीरम् धर्मविशेषसहितेभ्योणुभ्यो
 

जायते । क्षुद्रजन्तूनां यातनाशरीराणि अधर्मविशेषसहितेभ्योणुभ्यो जायन्ते

( प्रशस्त ० पृ० ४ ) । इन्द्रियम् गन्धग्राहकं घ्राणम् । तच्च

"नासाग्रवर्ति । इदम् सर्वप्राणिनां जलाद्यनभिभूतैः पार्थिवावयवैरारब्धम्

( प्रशस्त ० पृ० ४) । विषयः मृत्पाषाणादिर्ब्रह्माण्डान्तः । स च

व्यणुकादिक्रमेणारब्धस्त्रिविधः । मृत् पाषाणः स्थावरश्चेति । तत्र

मृत्पाषाणौ प्रसिद्धौ । स्थावरो वृक्षलतादिः (त० कौ० ) । तत्र

भूप्रदेशाः प्राकारेष्टकादयो मृद्विकाराः । पाषाणा उपलमणिवत्रादयः ।

स्थावरास्तृणौषधिगुल्मलताप्रतान वनस्पतयः इति ( प्रशस्त० पृ० ४ ) ।

पृथिव्यां चतुर्दश गुणा वर्तन्ते । रूपम् रसः गन्धः स्पर्शः संख्या

परिमाणम् पृथक्त्वम् संयोगः विभागः परत्वंम् अपरत्वम् गुरुत्वम्
 
200
 
+
 
-