2023-10-29 05:20:40 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

५०८
 
न्यायकोशः ।
 
(वै० उ० ७।२।२ ) इति । तदर्थश्च पृथक्त्वमपि संख्यावगुणान्तरमेव ।

तत्रैकपृथक्त्वम् एकत्वसंख्यातुल्यम् । द्विपृथक्त्वादिकं च द्वित्वादि-

संख्यातुल्यम् इति (वै० वि० ७ १२१२ ) । पृथक्त्वं सर्वद्रव्यवृत्ति ।

तथा च पृथक्त्वं द्विविधम् । एकवृत्ति अनेकवृत्ति चेति । तत्रैकपृथक्त्व-
-

मेकवृत्ति । द्विपृथक्त्वाद्यनेकवृत्ति ( त ० कौ० ) । एवं च पृथक्त्वम्

एकपृथक्त्वद्विपृथक्त्वादिभेदेन बहुविधम् ( सि० च० ) । तत्रैकपृथक्त्वं

नित्यगतं नित्यम् । अनित्यगतमनित्यम् ( त० कौ० ) । द्विपृथक्त्वादि
-

नित्यमेव इति च ज्ञेयम् ( त० कौ० ) । द्विवायुत्पत्तिविनाशवद्विपृथ

च नानैकपृथक्त्व विषयकापेक्षाबुद्धिजभ्यम् तन्नाशनाश्यं च इति सर्वम

द्युत्पत्तिविनाशावूहनीयौ ( वै० उ० ७ १२१८ ) ( वाक्य० १५० ८) ।

अत्र नव्याः ( दीधितिकाराः ) मीमांसकाश्चाहुः । पृथक्त्वमन्योन्याभाव

एव न तु गुणान्तरम् इति ( ग० व्यु० का० ५ पृ० ११०)

(दि० गु० ) । अन्ये वाहुः । पृथक्त्वं चान्योन्याभावाद्भिन्नमेव । अभाव

प्रतियोगिसापेक्षनिरूपणत्वात् । पृथक्त्वस्य त्ववधिनिरूप्यत्वात् इति

( न्या० ली० गुणनि० पृ० २३ ) ( ता० र० श्लो० ४५ ) ।
 
PRET
 

 
<
पृथिवी- >
(द्रव्यम्) [क] गन्धसमवायिकारणम् (मु० १ ) । तथा च

सूत्रम् रूपरसगन्धस्पशेवती पृथिवी (वै० २।१।१ ) इति । व्यवस्थितः

( त० सं० ) । यथा आम्रादिफलम् । गन्धवतीत्यस्य गन्धसमानाधिकरण-

पृथिव्यां गन्धः (वै० उ० २१२१२ ) इति च । [ख ] गन्धवती

द्रव्यत्व व्याप्यजातिमतीत्यर्थः । तेन उत्पत्तिक्षणे घटादौ उत्पन्नविनष्टे च

द्रव्ये गन्धासत्त्वेपि नाव्याप्तिः इति ( त० दी० १) । अत्रायं नियमः

उत्पन्नविनष्टे अव्याप्तिकथनं च बौद्धमतमनुसृत्य । तन्मते तदुत्पत्तिक्षण

प्रथमं द्रव्यं निर्गुणमेवोत्पद्यते पश्चात्तत्समवेता गुणा उत्पद्यन्ते इति ।

एतन्मते स्थितिक्षणेपि द्रव्यस्य सत्त्वस्वीकारात् इति । पाषाणादिभस्मनि

एव तन्नाशस्वीकारात् । नैयायिकास्तु उत्पन्नविनष्टद्रव्यं न स्वीकुर्वन्ति ।

गन्धोपलम्भेन पाषाणादावपि गन्धोनुमीयते । तत्रत्यगन्धस्यानुस्कटत्वा-

नोपलम्भः इति ज्ञेयम् (मु० १ पृथि० पृ० ६४-६५ ) ( त० व०