न्यायकोशः /560
This page has not been fully proofread.
न्यायकोशः ।
-
पूर्वत्वम् - १ प्रागभाषवत्त्वम् (ग० सार्व० पक्ष० पृ० ३८ ) । यथा
1 कारणस्य कार्योत्पत्तिपूर्वक्षणवृत्तित्वम् इत्यादौ क्षणस्य पूर्वत्वम् । यथा
या फाल्गुनस्य मासस्य चैत्रात्पूर्वत्वम् । अत्र पूर्वत्वं चाद्यत्वमिति लौकिक-
ॐन् । २ उदयगिरिसंनिहितदेशावच्छिन्नत्वम् । यथा पूर्वो
ग्रामादित्यत्र । अत्र पूर्वपदार्थैकदेशे तादृशसंनिहितत्वे ग्रामाद्यवधिकत्वं
• पञ्चम्या बोध्यते (श० प्र० श्लो० ९३ टी० पृ० १२७) । ३ क्रिया-
जन्यसंयोगप्रतियोगिदेशत्वम् यथा । मुंबईतो झळकीग्रामं गच्छत
उत्तरोत्तरदेशमपेक्ष्य पूर्वपूर्वदेशस्य पूर्वत्वम् ।
पूर्वपक्षः-१ [क] शास्त्रीय संशय निरासार्थप्रश्नरूपा फक्किका। [ख]
सिद्धान्तविरुद्धकोटिः । [ग] अधिकरणावयव विशेषः । अत्रोक्तम् विषयो
विशयश्चैव पूर्वपक्षस्तथोत्तरम् इति । २ प्रतिज्ञापरपर्यायः भाषापत्ररूपः प्रथ-
मावयवः पूर्वपक्षः । अयं चाभियोग इत्युच्यते ( फिर्याद इति प्र० ) ।
12
बृहस्पतिना पूर्वपक्षः स्मृतः पादो द्वितीयश्चोत्तरस्तथा । क्रियापादस्तृतीयस्तु
चतुर्थो निर्णयस्तथा ॥ इति ( वीरमित्रो० अ० २ लेख्य० पृ० ६०) ।
अत्रोक्तं
पूर्ववत् - (अनुमानम् ) १ यत्र कारणेन कार्यमनुमीयते । यथा मेघोन्नत्या
• भविष्यति वृष्टिरिति ( वात्स्या ० १।९।५ ) ( गौ० वृ० १/१/५ ) 1
अत्रार्थे पूर्ववत् इत्यत्र पूर्व कारणम् तद्वत्तल्लिङ्गकम् इति व्युत्पत्तिर्द्रष्टव्या
(गौ० वृ० १११।५) । २ यत्र यथापूर्व प्रत्यक्षभूतयोरन्यतरदर्शनेना-
न्यतरस्या प्रत्यक्षस्यानुमानम् । यथा घूमेनाग्निरिति (वात्स्या० १/१/५ ) ।
पूर्व प्रसिद्धं दृष्टस्खलक्षणसामान्य मिति यावत् । तदस्य विषयत्वेनास्त्य-
अत्र सांख्यानामयमर्थ: । दृष्टस्वलक्षणसामान्यविषयं यत् तत् पूर्ववत् ।
• नुमानज्ञानस्येति पूर्ववत् । यथा धूमाहित्वसामान्य विशेषः पर्वतेनुमीयते ।
• तस्य च वह्नित्वसामान्यविशेषस्य स्वलक्षणवह्निविशेषो दृष्टो रसवत्याम्
( सांख्य० कौ० का० ५ टी० पृ० १०) । ३ केवलान्वयि । यथा
• अभिधेयं प्रमेयत्वादित्यादि (गौ० वृ० १ । १/५ ) । अत्रार्थे पूर्ववत् इत्यत्र
पूर्वमन्वयव्याप्तिः तद्वत् इति व्युत्पत्तिर्दृष्टव्या ( गौ० वृ० १/१/५ ) ।
****