This page has been fully proofread once and needs a second look.

न्यायकोशः ।
 
<अकस्मात्>
हेतुशून्यः कालः ( गण० ) । यथा अकस्मादयमागत
इत्यादौ ।
 
<अकार:>
शून्यवचनः । ( पु० चि० पृ० १० )
 
<अकारणगुणोत्पन्नगुण[^१]त्वम्>
कारणगुणोत्पन्ना[^२]वृत्तिर्गुणत्वसाक्षा[^३]द्वयाप्या च या
जातिस्तादृशजातिमत्त्वम् ( दि० गु० ) । तादृशजातिस्तु बुद्धित्व सुखत्व-
शब्दत्वादिः ।
 
[^१] अकारणगुणोत्पन्नगुणास्तु बुद्ध्याद्यष्टकं भावना शब्दश्चेति । एते च विभुविशेष-
गुणा इत्यप्युच्यन्ते । (प० मा० ) ( भा०प० गु० )
[^२] कारणगुणोत्पन्नत्वं चात्र स्वाश्रयसमवायिसमवेतगुणजन्यत्वम् । तद्यथा-स्वं पटस्य
रूपं तदाश्रयः पटः तस्य समवायी तन्तुः तत्र समवेतो गुणस्तन्तो रूपं तेन
जन्यत इति पटस्य रूपं कारणगुणोत्पन्नं भवतीति बोध्यम् ।
[^३] गुणत्वसाक्षाद्व्याप्यत्वं* च संस्कारत्वान्यगुणत्वव्याप्याव्याप्यत्वे सति गुणवव्या-
प्यत्वम् । ( दि० गु० ). * परममहत्त्वत्वादिकमादायांतिव्याप्तिवारणाय साक्षादिति पदम् । ( दि० गु० )
 
 
<अक्रिया>
कर्माकरणम् । तत्रिविधम् । तदुक्तं छन्दोगपरिशिष्टे कात्यायनेन
अक्रिया त्रिविधा प्रोक्ता विद्वद्भिः कर्मकारिणाम् । अक्रिया च परोक्ता
च तृतीया चायथाक्रिया । ( मिता० टी० बा० पृ० २५३ )
 
-
 
<अक्षपादः>
न्यायसूत्रकर्ता गौतमर्षिः । स हि प्रमाणप्रमेयादिषोडशपदार्थ-
वादी पदार्थतत्त्वज्ञानान्मोक्षं मन्यते ।
 
 
४ अत्र श्रूयते । गौतमो हि स्वमतदूषकस्य व्यासस्य मुखदर्शनं चक्षुषा न कर्तव्य-
मिति प्रतिज्ञाय पश्चात् व्यासेन प्रसादितः पादे नेत्रं प्रकाश्य तं दृष्टवान्-इति
पौराणिकी कथा ।
अत्रान्यदुच्यते – अक्षपादप्रणीते च काणादे सांख्ययोगयोः । त्याज्यः श्रुतिवि-
रुद्धार्थ इति पद्मपुराणम् । ( वाच० )
 
* परममहत्त्वत्वादिकमादायांतिव्याप्तिवारणाय साक्षादिति पदम् । ( दि० गु० )
↑ अन्वयस्तु–संस्कारत्वान्यो यो गुणत्वव्याप्यस्तस्याव्याप्यत्वं तस्मिन्निति । अत्र सं-
स्कारत्वान्येति विशेषणाभावे तु भावनात्वस्य गुणत्वसाक्षायाप्यत्वाभावेन भावनाया
असंग्रहः स्यादतस्तद्विशेषणम् ।