न्यायकोशः /556
This page has been fully proofread once and needs a second look.
न्यायकोशः ।
5
मौहूर्तिका आहुः। ३ मेषकर्कटतुलामकररूपो राशिः इति ज्योतिर्विद
आहुः । ४ सत्कर्मपुद्गलाः पुण्यम् ( सर्व० सं० पृ० ८७ आई० ) ।
<पुद्गलः
१ परमाणुः । २ बौद्धास्तु द्यणुकादिपदार्थविशेषः इत्याहुः ।
•
स्पर्शरसगन्धवर्णवन्तः पुद्गलाः । ते च द्विविधाः । अणवः स्कन्धाश्च
( सर्व० सं० पृ० ७१ आई० ) । अत्रोक्तम् पूरणाद्गलनादेहे पुद्गलाः
S
परमाणवः । इति ( विष्णुपु० ) ।
आहुः (वाच० ) ।
<पुनः
(अव्ययम् ) १ द्वितीयवारम् । २ अप्रथमः । ३ भेदः । ४
15
(गणर०) (अमरः ) । ५ अधिकारः । ६ पक्षान्तरम् ( वाच० ) ।
पुनरुक्तम् –
<पुनरुक्तम्>
( निग्रहस्थानम् ) [क] शब्दार्थयो: पुनर्वचनं पुनरुक्तम-
●
न्यत्रानुवादात् ( गौ० ५।२।१४ ) । अन्यत्रानुवादाच्छन्दपुनरुक्तमर्थ-
पुनरुक्तं वा । तेन पुनरुक्तं शब्द पुनरुक्तार्थपुनरुक्तमेदेन द्विविधम् इति
बोध्यते । नित्यः शब्दः नित्यः शब्दः इति शब्दपुनरुक्तम् । अर्थ-
•
पुनरुक्तम् नित्यः शब्दः निरोधधर्मको ध्वानः इति (वात्स्या० ५/२/१४) ।
•
तेन शब्द पुनरुक्तम् अर्थपुनरुक्तं च लभ्यते । अनुवादेतिव्याप्तिवारणाय
अत्रायमर्थः । पुनर्वचनं पुनरुक्तम् । तस्य विभागार्थी शब्दार्थयोः इति ।
•
अन्यत्रानुवादात् इति । अनुवादस्तु व्याख्यारूपः सप्रयोजनक एव
इति (गौ० दृ० ५।२।१४ ) । [ख] अनुवादान्यत्वे सति निष्प्रयोजनं
•
पुनरभिधानम् ( गौ० वृ० ५/२/१४ ) ( दि० १) । [ग] अनुवादं
विना कथितस्य पुनः कथनम् ( नील० पृ० ४५ ) ।
<पुमर्थत्वम्
शास्त्रजन्यज्ञानाजन्येच्छा विषयसाधनत्वम् (जै०
अ० ४ पा० १ सू० २) ।
<पुमान्
१ पुरुषः । अत्र पुंस्त्वस्वरूपं तु यस्याप्सु प्लवते बीजं हादि मूत्रं
च फेनिलम् । पुमान् स्याल्लक्षणैरेतैर्विपरीतैस्तु षण्ढकः ॥ इति ( मिता०
अ० १ श्लो० ५५ ) । अत्रायं विशेषः । बिन्दुरेको विशेद्गर्भमुभयात्मा
•
क्रमादसौ । रजोधिका भवेन्नारी भवेद्रेतोधिकः पुमान् ॥ उभयोः सम-
३ सुन्दराकारः इति काव्यज्ञा
वृ०
सू०