This page has not been fully proofread.

५०२
 
न्यायकोशः ।
 
5
 
क्षीयते (श्रुतिः ) इत्यादौ पुण्यम् । २ लग्नावधिकं सप्तमस्थानम् इति
मौहूर्तिका आहुः। ३ मेषकर्कटतुलामकररूपो राशिः इति ज्योतिर्विद
आहुः । ४ सत्कर्मपुद्गलाः पुण्यम् ( सर्व० सं० पृ० ८७ आई० ) ।
पुद्गलः - १ परमाणुः । २ बौद्धास्तु द्यणुकादिपदार्थविशेषः इत्याहुः ।
• स्पर्शरसगन्धवर्णवन्तः पुद्गलाः । ते च द्विविधाः । अणवः स्कन्धाश्च
( सर्व० सं० पृ० ७१ आई० ) । अत्रोक्तम् पूरणाद्गलनादेहे पुद्गलाः
 
S
 
परमाणवः । इति ( विष्णुपु० ) ।
आहुः (वाच० ) ।
 
पुनः- (अव्ययम् ) १ द्वितीयवारम् । २ अप्रथमः । ३ भेदः । ४
 
विशेषः
 
15
 
(गणर०) (अमरः ) । ५ अधिकारः । ६ पक्षान्तरम् ( वाच० ) ।
पुनरुक्तम् – ( निग्रहस्थानम् ) [क] शब्दार्थयो: पुनर्वचनं पुनरुक्तम-
●न्यत्रानुवादात् ( गौ० ५।२।१४ ) । अन्यत्रानुवादाच्छन्दपुनरुक्तमर्थ-
पुनरुक्तं वा । तेन पुनरुक्तं शब्द पुनरुक्तार्थपुनरुक्तमेदेन द्विविधम् इति
बोध्यते । नित्यः शब्दः नित्यः शब्दः इति शब्दपुनरुक्तम् । अर्थ-
• पुनरुक्तम् नित्यः शब्दः निरोधधर्मको ध्वानः इति (वात्स्या० ५/२/१४) ।
• तेन शब्द पुनरुक्तम् अर्थपुनरुक्तं च लभ्यते । अनुवादेतिव्याप्तिवारणाय
अत्रायमर्थः । पुनर्वचनं पुनरुक्तम् । तस्य विभागार्थी शब्दार्थयोः इति ।
• अन्यत्रानुवादात् इति । अनुवादस्तु व्याख्यारूपः सप्रयोजनक एव
इति (गौ० दृ० ५।२।१४ ) । [ख] अनुवादान्यत्वे सति निष्प्रयोजनं
• पुनरभिधानम् ( गौ० वृ० ५/२/१४ ) ( दि० १) । [ग] अनुवादं
 
विना कथितस्य पुनः कथनम् ( नील० पृ० ४५ ) ।
पुमर्थत्वम् – शास्त्रजन्यज्ञानाजन्येच्छा विषयसाधनत्वम् (जै०
 
अ० ४ पा० १ सू० २) ।
 
पुमान्–१ पुरुषः । अत्र पुंस्त्वस्वरूपं तु यस्याप्सु प्लवते बीजं हादि मूत्रं
च फेनिलम् । पुमान् स्याल्लक्षणैरेतैर्विपरीतैस्तु षण्ढकः ॥ इति ( मिता०
अ० १ श्लो० ५५ ) । अत्रायं विशेषः । बिन्दुरेको विशेद्गर्भमुभयात्मा
• क्रमादसौ । रजोधिका भवेन्नारी भवेद्रेतोधिकः पुमान् ॥ उभयोः सम-
३ सुन्दराकारः इति काव्यज्ञा
 
वृ०
सू०