2023-10-29 05:11:50 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

न्यायकोशः ।
 
५०१
 
तत्र परमाणुरूपे परमाणवः समवायिकारणम् । तेजः संयोगः असमवायि-

कारणम् । अदृष्टादिकं निमित्तकारणम् इति । द्यणुकादिरूपे तु कारण-

रूपमसमवायिकारणम् इति च ज्ञेयम् ( त० दी० १ पृ० १३) ।

अयमाशयः । अतिवेगवता तेजसा परमाणूनामभिघातसंयोगे सत्यवश्यं

तेषु क्रिया जायते । ततो विभागः । तत आरम्भकसंयोगनाशे सत्यवश्यं

यावदवयविनाशः । ततः स्वतन्त्रेषु परमाणुषु रूपान्तरोत्पत्तौ पुनरदृष्टादि-

घटितसामग्रीवशात्परमाणुषु क्रियाविभागादिक्रमेण यथाव स्थित महावयवि-

पर्यन्तमुत्पत्तिः इति ( नील० १ पृ० १३ ) । अयं भावः । आम-

निक्षिते घटे हुताशनसंयोगात्परमाण्वादिकपालपर्यन्तावयवेषु क्रिया ।

ततः परस्परविभागः । ततः परस्परसंयोगनाशः । ततः असमवायि-

कारणनाशाद्रव्यनाश: इति नियमेन श्यामघटनाशे शिष्टाः परमाणवः

पच्यन्ते। तत्र पाकेन रूपादिचतुष्टयोत्पत्तिः । ततः परमेश्वरेण सर्गादा-

विव व्यणुकादिक्रमेण पूर्ववद्रक्तघटो निर्मीयते । परमाणुरूपेण व्यणुक

रूपं जन्यते इत्येवं क्रमः । अन्यथा घटस्य दृढतरत्वे हुताशनप्रवेशा-

संभवाद्रपाद्युत्पत्तिने स्यात् इति ( सि० च० १ पृ० १६) ।

 
<
पुंलिङ्गम्>
(नाम) [क ] पुंलिङ्गत्वेन परिभाषितम् । यथा घटोस्तीत्यादौ

घटशब्दः पुंलिङ्गः । पुंलिङ्गत्वेन परिभाषायाः प्रयोजनं च पदसंस्कारः ।

सच तटः इत्यादी पुंस्त्वेन सुवादिसद्भावः ( श० प्र० श्लो० ५३ टी०

पृ० ६८) । [ख] कचित् विलक्षणसंस्थान रूपपुंस्त्वविशिष्टवाचकम् ।

यथा न विप्रोध्ययनं त्यजेदित्यादौ । अत्र अलुप्तेन सुपैव ( न तु प्रकृत्या )

उपस्थितं विलक्षणसंस्थानरूपं पुंस्त्वं विप्रेनुभूयते इति ज्ञेयम् (श०

प्र० श्लो० ५३ टी० पृ० ६९ ) ।

 
<
पुच्छम्>
(नाडिका) मुखे पञ्च गले त्वेका वक्षस्येकादश स्मृताः । नाभौ

चतस्रः षट् कट्यां तिस्रः पुच्छाख्यनाडिका: । ( पु० चि० पृ० ३१०) ।
 

 
<
पुण्यम् - >
१ ( गुणः ) धर्मवदस्यार्थीनुसंधेयः । यथा तस्मादात्मकृतं पुण्यं

वृथा न परिकीर्तयेत् इति ( देवल: ) क्षीणे पुण्ये मर्त्यलोकं विशन्ति

(श्रुतिः ) तद्यथेह कर्मचितो लोकः क्षीयते एवममुत्र पुण्यचितो लोकः
 
-