2023-10-29 05:10:20 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

५००
 
न्यायकोशः ।
 
संगच्छते । अन्त्यावयविनाशाद्यकल्पनेन लाघवं च इति ( नील० १

पृ० १३)। घटादिकं सच्छिद्रमेव । अन्यथा तदन्तर्गततण्डुलादे: पाको

न स्यात् । अतः एकदैव परमाण्वादिघटपर्यन्तेषु घटनाशं विना पाके-

नैव रूपाद्युत्पत्तिः इति ज्ञेयम् ( सि० च० १ पृ० १६) ।
 
-
 

 
<
पिठरम्>
कार्यकारणसमुदायः (अवयवावयविसमुदायः) घटपटादिः । यथा

पिठरपाकवादिनो नैयायिकाः इत्यादौ ।
 

 
<
पिण्डीभावः~>
[क] चूर्णादेर्धारणाकर्षणहेतुभूतो विलक्षणसंयोगः (न्या०

बो० १ पृ० ६ ) ( नील० १ पृ० १४ ) । [ख फूत्कारा दिहेतुक-

देशान्तर निर्गमप्रतिबन्धकोवयवानां संयोगविशेष: (वाक्य० १ पृ० ९) ।
 
इत्यादौ
 

यथा चूर्णादिपिण्डीभावहेतुर्गुणः स्नेहः ( त० सं० )
इत्यादौ
पिण्डीभावः ।
 

 
<
पितृत्वम् - >
१ [क] श्राद्धोद्देश्यत्वम् । [ख] सपिण्डीकरणोत्तरश्राद्ध-

जन्यफलभागित्वम् (कृष्ण० ) । यथा श्राद्धादौ पितृपितामहप्रपितामहाः

शालङ्कायनगोत्राः वसुरुद्रादित्यान्तर्गत प्रद्युम्नसंकर्षण वासुदेवाः इत्यादौ ।

अत्रोक्तं याज्ञवल्क्येन वसुरुद्रादितिसुताः पितरः श्राद्धदेवताः । प्रणयन्ति

मनुष्याणां पितॄन् श्राद्धेन तर्पिताः ॥ इति ( याज्ञ० स्मृ० अ० १

श्लो० २६८ ) । २ जनकपुंस्त्वम् । यथा चैत्रस्य पिता इत्यादौ

पितृत्वम् ( त० कौ० ) ( त० प्र० ख० ४ पृ० ५९ ) । एवम्
 

जनकस्त्रीत्वं मातृत्वम् इत्यादिकमूह्यम् ।
 

 
<
पीलु: - >
परमाणुः (० उ० ७।१।६) । यथा पीलुपाकवादिनो वैशेषिकाः
 

इत्यादौ ।
 
'चावय-

 
<
पीलुपाकवादी->
(वैशेषिक:) पीलवः परमाणवः । त एव स्वतन्त्रा:

पच्यन्ते । तत्रैव पूर्वरूपनाशाग्रिमरूपाद्युत्पत्तिः । कारणगुणण

विनि रूपाद्युत्पद्यते इति यो मन्यते सः ( वै० उ० ७/१/६ ) । यथा

न्मते च परमाणुष्वेव पाकः न द्यणुकादौ । आमनिक्षिप्ते घटे श्याम-

कणादप्रधानाः पीलुपाकवादिनः । अधिकं च पाकशब्दे दृश्यम् । एत-

घटनाशे परमाणुषु रूपान्तरोत्पत्तौ पुनर्व्यणुकादिक्रमेण रक्तघटोत्पत्तिः ।