2023-10-29 05:08:50 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

न्यायकोशः ।
 
४९९
 
शास्त्रकारा दिसंकेतितं सव्यभिचार अप्राप्तकाल नदी वृद्धि इत्यादिपदं

पारिभाषिकम् ( ग० शक्ति० पृ० ३ ) ।
 
-
 

 

 
<
पारिभाषिकी संज्ञा - >
(रूढनाम) उभयावृत्तिधर्मावच्छिन्नसंकेतवती संज्ञा।

यथा आकाशडित्यादिः । सा हि द्वितयावृत्तिनैव शब्दादिना रूपेण

तदाश्रयमभिधत्ते ( श० प्र० श्लो० २१ टी० पृ० २५ ) । केचित्त यत्रार्थे

यन्नामाधुनिकसंकेतवत् तदेव तत्र पारिभाषिकम् । यथा पित्रादिभिः

पुत्रादौ संकेतितं चैत्रादि । यथा वा शास्त्रकृद्भिः सिद्ध्यभावादौ संकेतितं

पक्षतादिपदम् इत्याहुः ( श० प्र० श्लो० २२ टी० पृ० २६ ) । अत्र

केचिदित्यस्य ये जात्यवच्छिन्नसंकेतवतामपि चैत्रादिपदानां पारिभाषिकत्व-

माहुः ते इत्यर्थः ।
 

 
<
पारिमाण्डल्यम्>
अणुपरिमाणम् (मु० १ साधर्म्य० ) ( प्रशस्त ०
 

पृ० १५) ।
 

 
<
पार्थिवः>
१ पृथिवीकारणकः । यथा शरीरमस्मदादीनां पार्थिवम् (त० सं०)

इत्यादौ । अत्रार्थे पृथिव्या विकारः पार्थिवः इति विग्रहो द्रष्टव्यः । २ राजा

इति काव्यज्ञा आहुः । अत्रार्थे पृथिव्या ईश्वरः पार्थिवः इति विग्रहो द्रष्टव्यः ।

 
<
पाश: - >
पाशश्चतुर्विधः मलकर्ममायारोधशक्तिभेदात् ( सर्व० सं०
 
-
 

पृ० १८७ शै० ) ।
 
-
 
पाप

 
<पाष
ण्डी - >
वेदबाह्यागमविहितकर्मकारी ( पुरु० चि० पृ० २०५ ) ।

 
<
पिठरपाकवादी>
( नैयायिकः )
 
घटपटादिः कार्यकारणसमुदायोपि

पच्यते न तु केवलं परमाणव एव पच्यन्ते इति यो मन्यते सः

(वै० उ० ७/११६) । यथा गौतमप्रधाना नैयायिकाः पिठरपाक-

वादिनः । एतन्मते च पूर्वघटनाशं विनैवावयविन्यवयवेषु परमाणुपर्यन्तेषु

च पाकेनैव युगपद्रूपान्तराद्युत्पत्तिः इति ( त० दी० १ पृ० १३)।

"अतिशयवेगवता तेजसा परमाणूनामभिघातसंयोगेपि तस्य नियमत

आरम्भकसंयोग प्रतिद्वन्द्वि विभाग जनक क्रिया जनकत्वे मानाभावेन अवयवि-

अन्यपि पाकस्वीकार उचितः । अत एव सोयं घटः इति प्रत्यभिज्ञा