This page has not been fully proofread.

न्यायकोशः ।
 
४९९
 
शास्त्रकारा दिसंकेतितं सव्यभिचार अप्राप्तकाल नदी वृद्धि इत्यादिपदं
पारिभाषिकम् ( ग० शक्ति० पृ० ३ ) ।
 
-
 

 
पारिभाषिकी संज्ञा - (रूढनाम) उभयावृत्तिधर्मावच्छिन्नसंकेतवती संज्ञा।
यथा आकाशडित्यादिः । सा हि द्वितयावृत्तिनैव शब्दादिना रूपेण
तदाश्रयमभिधत्ते ( श० प्र० श्लो० २१ टी० पृ० २५ ) । केचित्त यत्रार्थे
यन्नामाधुनिकसंकेतवत् तदेव तत्र पारिभाषिकम् । यथा पित्रादिभिः
पुत्रादौ संकेतितं चैत्रादि । यथा वा शास्त्रकृद्भिः सिद्ध्यभावादौ संकेतितं
पक्षतादिपदम् इत्याहुः ( श० प्र० श्लो० २२ टी० पृ० २६ ) । अत्र
केचिदित्यस्य ये जात्यवच्छिन्नसंकेतवतामपि चैत्रादिपदानां पारिभाषिकत्व-
माहुः ते इत्यर्थः ।
 
पारिमाण्डल्यम् – अणुपरिमाणम् (मु० १ साधर्म्य० ) ( प्रशस्त ०
 
पृ० १५) ।
 
पार्थिवः–१ पृथिवीकारणकः । यथा शरीरमस्मदादीनां पार्थिवम् (त० सं०)
इत्यादौ । अत्रार्थे पृथिव्या विकारः पार्थिवः इति विग्रहो द्रष्टव्यः । २ राजा
इति काव्यज्ञा आहुः । अत्रार्थे पृथिव्या ईश्वरः पार्थिवः इति विग्रहो द्रष्टव्यः ।
पाश: - पाशश्चतुर्विधः मलकर्ममायारोधशक्तिभेदात् ( सर्व० सं०
 
-
 
पृ० १८७ शै० ) ।
 
-
 
पापण्डी - वेदबाह्यागमविहितकर्मकारी ( पुरु० चि० पृ० २०५ ) ।
पिठरपाकवादी – ( नैयायिकः )
 
घटपटादिः कार्यकारणसमुदायोपि
पच्यते न तु केवलं परमाणव एव पच्यन्ते इति यो मन्यते सः
(वै० उ० ७/११६) । यथा गौतमप्रधाना नैयायिकाः पिठरपाक-
वादिनः । एतन्मते च पूर्वघटनाशं विनैवावयविन्यवयवेषु परमाणुपर्यन्तेषु
च पाकेनैव युगपद्रूपान्तराद्युत्पत्तिः इति ( त० दी० १ पृ० १३)।
"अतिशयवेगवता तेजसा परमाणूनामभिघातसंयोगेपि तस्य नियमत
आरम्भकसंयोग प्रतिद्वन्द्वि विभाग जनक क्रिया जनकत्वे मानाभावेन अवयवि-
अन्यपि पाकस्वीकार उचितः । अत एव सोयं घटः इति प्रत्यभिज्ञा