न्यायकोशः /552
This page has been fully proofread once and needs a second look.
न्यायकोशः ।
[क] पातित्यजनकदुरदृष्टप्रयोजक क्रियाविशेषः । यथा गोवा-
५ह्मणवधादि पातकम् । अत्र महापातकान्युच्यन्ते ब्रह्महत्या सुरापानं स्तेयं
गुर्वङ्गनागमः । महान्ति पातकान्याहुः संसर्गश्चापि तैः सह ॥ इति
५१ ( मनु० अ० ११ श्लो० ५५ ) । उपपातकानि तु गोवधोय[^१]ज्यसंया-
ज्यपारदार्यात्मविक्रयाः । गुरुमातृपितृत्यागः स्वाध्यायान्योः सुतस्य च ॥
इत्यादि ( मनु० अ० ११ श्लो० ५९ - ६६ ) । ख । पापजनकं कर्म ।
[^१] अयाज्येति पदच्छेदः ।
<पातालम्
एकषष्ट्यधिकशतत्रयपरिमिता संख्या ( अतलशब्दे दृश्यम् ) ।
<पानम्
१ द्रवद्रव्यस्य गलाधः संयोजनम् । यथा पानीयं पातुमिच्छामि
त्वत्तः कमललोचने इत्यादौ । २ रक्षणम् । यथा पाहि मां भवसागरात्
इत्यादौ । ३ निःश्वासः ( वाच० ) ।
पापम् –
<पापम्>
१ ( गुण: ) वेदैकप्रतिपाद्योनिष्टसाधनमदृष्टविशेषः । अधिकं तु
अधर्मशब्देनुसंधेयम् । २ सत्कर्मपुद्गलाः पुण्यं पापं तस्य विपर्ययः
( सर्व० सं० पृ० ८७ आर्ह० ) ।
●
-
<पारदः
संसारस्य परं पारं दत्तेसौ पारदः स्मृतः ( सर्व० सं० पृ०
२०२ रसेश्व० ) ।
-
<पारमार्थिकत्वम्
१ प्रमाविषयत्वम् । यथा घटपटादीनां पारमार्थिकत्वम् ।
२ [क] कालत्रयसंबन्धित्वम् । [ख ] केचिद्वेदान्तिनस्तु त्रिकाला
ज्ञेयम् । अपारमार्थिकत्वं तु पारमार्थिकत्वाभाव एव । यथा खपुष्प-
साधनत्वम् इति कर्मज्ञा आहुः । ४ स्वाभाविकत्वम् इति काव्यज्ञा आहुः ।
<पारिणामिकः
कर्मोपशमाद्यनपेक्षः सहजो भावश्चेतनत्वादिः पारिणामिकः
शशशृङ्गकूर्मरोमवन्ध्यापुत्रादीनामपारमार्थिकत्वम् इति । ३ निःश्रेयस
( सर्व० सं० पृ० ६९ आर्ह० ) ।
<पारिभाषिकम्
( शब्द:) आधुनिकसंकेतेनार्थबोधकं पदम् / यथा
१ अयाज्येति पदच्छेदः ।
-