2023-10-28 19:08:08 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

४९६
 
न्यायकोशः ।
 
तेजसा परमाणुनामभिघातेपि तस्य नियमत आरम्भकसंयोगप्रतिद्व-

न्द्विविभागजनकक्रियाजनकत्वे मानाभावेन अवयविन्यपि पाकस्वीकार

उचितः । अत एव सोयं घटः इति प्रत्यभिज्ञा संगच्छते । अन्त्य/-

वयविनाशाद्यकल्पनेन लाघवं च इति ( नील० १ पृ० १३) ।

द्रव्यादेः पाकप्रकारभेदादिकं पाकराजेश्वरे उक्तम् । यथा भर्जनं तलन

स्वेदः पचनं कथनं तथा । तान्दूरं पुटपाकश्च पाकः सप्तविधो मतः ॥

तत्र भर्जनं केवलपात्रे । तलनं स्नेहद्रव्ये । स्वेदनमभ्युत्तापे । पचनं

जले कथनं सिद्धद्रव्यरसग्रहणे । तान्दूरं द्वारबद्धतप्तयन्त्रे पुटपाक

ऊर्ध्वाधोग्नितापे ज्ञेय इति ( वाच० ) । [ ख ] रूपादिपरावृत्तिजनक

तेजःसंयोगः । यथा तण्डुलं पचतीत्यादौ पच्यर्थः पाकः । अत्र अव

यविन्यपि पाकाङ्गीकर्तृनैयायिकमते तण्डुलं पचतीत्यादौ पचधात्वर्थघटके

रूपादिपरावृत्यात्मकफले तण्डुलादिवृत्तित्वान्वयः । ओदनं पचतीत्यादौ

भ्युपगमे वैशेषिक मते तु तण्डुलं पचतीत्यादौ तण्डुलादिपदस्य तदारम्भक-

तु ओदनादिपदस्य तन्निष्पादकतण्डुलादौ लक्षणा । अवयविनि पाकान-

परमाणुषु लक्षणा (ग० व्यु० का ० २ पृ० ४३ ) । अत्र वैयाकरण-

मते विशेषः । अनेन विकेदनाया उत्पत्यनुकूलव्यापारस्य चेति व्यापार-

द्वयस्य वचनाद्विकर्मकत्वम् । तण्डुलानोदनं पचतीत्यस्य तण्डुलान्

विक्केदयन् ओदनं निष्पादयति इत्यर्थः । दुहादित्वेन गौणे कर्मण

लकारे च तण्डुला ओदनं पच्यन्ते इति ( वाच० ) । अधिकं तु द

शब्दे द्रष्टव्यम् । [ग] रूपादिपरावृत्तिफलकतेजः संयोगावच्छिन्नक्रिया ।

यथा तण्डुलं पचतीत्यत्र पचेरर्थः पाकः । अत्र पचधात्वर्थनिविष्ठे च

निरुक्ते तेज:संयोगे तण्डुलस्याधेयत्वेनान्वयः । ओदनं पचतीत्यादौ तु

यार्थः इत्यपि कश्चिदाह । परमाणुं पचति इत्यपि प्रयुज्यत एव ।

तण्डुलादावोदनादिपदस्य लक्षणा । तत्र क्रियायामन्वितमनुकूलत्वं द्विती-

प्र० श्लो० ७२ टी० पृ० ९४ ) । अत्रेदमवधेयम् । चुल्लीस्थाल्यारोपणा

एव स्वतन्त्राः परमाणवः पच्यन्ते इति किरणावल्यामाचार्या आहुः (श०

दिकं हि न प्रत्येकं पाकपदार्थ: । किंतु स्थाल्यारोपणाग्निनिवेशनतुष-
"दोहन-
अत