2023-10-17 16:10:30 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

<अंहस्पतिः>
क्षयमासः । यस्मिन्मासे न संक्रान्तिः संक्रान्तियमेव वा ।
संसपहस्पती मासावधिमासश्च निन्दिताः ॥ ( पु० चि० पृ० १६)
 
<अकर्मक:>
(धातुः) [क] व्यापारसमानाधिकरण[^१]फलवाचकः ( ल० म०) ।
यथा वृक्षात्पर्ण पेप[^२]ततीत्यादौ पत्-धातुरकर्मकः ।
[ख] व्यापारव्यधिकरणफळवाचकत्वाभाववान् ।
[ग] व्याकरणशास्त्रीय कर्मसंज्ञकार्थानन्वय्यर्थक इति शाब्दिका बद-
न्ति । ( ल० म० धा० ५ )
[घ ] फलावच्छि[^३]न्नव्यापारवाचको धातुरकर्मक इत्यपि कश्चिद्वक्ति ।
( ल० व० )
[ ङ ] व्यापाराधिकरणमा[^४]त्रवृत्तिफलवाच[^५]कः । ( वाच ० )
 
[^१] व्यापाराधिकरणेतरावृत्ति यत्फलं तद्वाचक इत्यर्थः । तेन गम्यादौ फलस्य ( द्वि-
ष्ठत्वेन ) व्यापाराधिकरणकर्तृनिष्ठत्वेऽपि नातिव्याप्तिः । ( वै० सा० द० ८९ )
[^२] अत्र अधोदेशसंयोगानुकूलव्यापारस्य पत्-धात्वर्थत्वेनाघोदेशसंयोगरूपं फलं
तदनुकूलव्यापारश्चैतद्वयमेकस्मिन् पर्णे तिष्ठतीति फलव्यापारयोः सामानाधिकरण्यं
संगच्छत इत्यवधेयम् ।
[^३] अत्रावच्छिन्नत्वं च पूर्वोक्तसामानाधिकरण्यात्मकमेवेति भाति ।
[^४] तेन गम्यादेर्व्यापाराधिकरण- (कर्तृ) वृत्तिफलवाचित्वेऽपि नाकर्मकत्वम् । (वाच
[^५] अत्रोक्तं हरिणा — फलव्यापारयो रेकनिष्ठतायामकर्मक इति । एकनिष्ठताया मे क
मात्रवृत्तितायामित्यर्थः । ( वाच० )