This page has not been fully proofread.

न्यायकोशः ।
 
Spy
 
श्रीपाण्डुरङ्गो विजयते ॥ नवा श्रीविठ्ठलं देवं गुरूंश्च पितरौ तथा । भीमाचार्यो
वितनुते न्यायकोशं कृते विदाम् ॥ १ ॥ न्यायसूत्रादितः शब्दानुद्धृत्यायं सु-
निर्मित: । प्राग्भिस्तु कविभिर्यस्मान्नोपदर्शित ईदृशः ॥ २ ॥ अतः संमानय-
न्त्वेनं न्यायकोशं दयालवः । निर्मत्सराश्च विद्वांसो बालकस्येव चेष्टितम् ॥ ३ ॥
 
212
 
-
 
अंहस्पतिः - क्षयमासः । यस्मिन्मासे न संक्रान्तिः संक्रान्तियमेव वा ।
संसपहस्पती मासावधिमासश्च निन्दिताः ॥ ( पु० चि० पृ० १६)
 
-
 
अकर्मक: - (धातुः) [क] व्यापारसमानाधिकरणफलवाचकः ( ल० म०) ।
यथा वृक्षात्पर्ण पेततीत्यादौ पत्-धातुरकर्मकः ।
 
[ख] व्यापारव्यधिकरणफळवाचकत्वाभाववान् ।
 
[ग] व्याकरणशास्त्रीय कर्मसंज्ञकार्थानन्वय्यर्थक इति शाब्दिका बद-
न्ति । ( ल० म० धा० ५ )
 
[घ ] फलावच्छिन्नव्यापारवाचको धातुरकर्मक इत्यपि कश्चिद्वक्ति ।
( ल० व० )
 
[ ङ ] व्यापाराधिकरणमत्रवृत्तिफलवाचकः । ( वाच ० )
 
१ व्यापाराधिकरणेतरावृत्ति यत्फलं तद्वाचक इत्यर्थः । तेन गम्यादौ फलस्य ( द्वि-
ष्ठत्वेन ) व्यापाराधिकरणकर्तृनिष्ठत्वेऽपि नातिव्याप्तिः । ( वै० सा० द० ८९ )
२ अत्र अधोदेशसंयोगानुकूलव्यापारस्य पत्-धात्वर्थत्वेनाघोदेशसंयोगरूपं फलं
तदनुकूलव्यापारश्चैतद्वयमेकस्मिन् पर्णे तिष्ठतीति फलव्यापारयोः सामानाधिकरण्यं
संगच्छत इत्यवधेयम् ।
 
३ अत्रावच्छिन्नत्वं च पूर्वोक्तसामानाधिकरण्यात्मकमेवेति भाति ।
 
४ तेन गम्यादेर्व्यापाराधिकरण- (कर्तृ) वृत्तिफलवाचित्वेऽपि नाकर्मकत्वम् । (वाच
५ अत्रोक्तं हरिणा — फलव्यापारयो रेकनिष्ठतायामकर्मक इति । एकनिष्ठताया मे क
(0)
मात्रवृत्तितायामित्यर्थः । ( वाच० )
 
ग्रा