2023-10-28 19:07:44 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

न्यायकोशः ।
 
४९५
 
प्रक्रमेण चावयविनि रूपाद्युत्पद्यते इति पीलुपाकवादिनः वैशेषिकाः

आहुः । अत्रेदं तत्त्वम् । आमपाके निक्षिप्तस्य घटादेरामद्रव्यस्य

वह्निना नोदनादभिघाताद्वा तदारम्भकेषु परमाणुषु द्रव्यारम्भकसंयोग-

। विरोधिविभागेनारम्भकसंयोगनाशे द्रव्यनाशावश्यंभावः । दृश्यते हि

स्थाल्यामाहितानां तण्डुलादीनामप्यधःसंतापनमात्रेण भर्जनात्तदानीमेव

नाशः । क्षीरनीरादीनां चात्यन्तमुल्बणता । तथा च आमपाके वह्नि-

ज्वालाजालाभिहतानां द्रव्याणामवस्थानम् इति महती प्रत्याशा (वै०

उ० ७१११६ ) ( त० कौ० ) । पार्थिवपरमाणुरूपादीनां पाक-

जोत्पत्तिविधानमित्थम् । घटादेरामद्रव्यस्याग्निना संबद्धस्याग्यभिघातानो-

दनाद्वा तदारम्भकेष्वणुषु कर्माण्युत्पद्यन्ते । तेभ्यो विभागाः । विभागेभ्यो

विनष्टे परमाणुष्वनियोगादौष्ण्यापेक्षाच्छ्या मादीनां विनाशः । पुनरन्-

द्रव्यारम्भक संयोगविनाशाः । तद्विनाशेभ्यः कार्यद्रव्यं विनश्यति । तस्मि-

स्मादग्निसंयोगा दौ॰ण्यापेक्षात्पाकजा: रूपादयो जायन्ते । तदनन्तरम् भो-

गिनामदृष्टापेक्षादात्मानुसंयोगादुत्पन्नपाकजेष्वणुषु कर्मोत्पत्तौ तेषां परस्पर-

संयोगांद्व्यणुकादिक्रमेण कार्यद्रव्यमुत्पद्यते । तत्र च कारणगुणपूर्व

रूपाद्युत्पत्तिः । न च कार्यद्रव्ये रूपादिविनाश उत्पत्तिर्वा संभवति ।

अपि तु परमाणुष्वेव । सर्वावयवेष्वन्तर्बहिश्च वर्तमानस्याग्निना व्याय-

भावात् । अनुप्रवेशादपि च व्याप्तिर्न संभवति । कार्यद्रव्यविनाशात्

इति ( प्रशस्त० पृ० १३) । पाकोपि रूपादेरसमवायिकारणं

भवति । तत्र च परमाणावेव पाकाद्रूपादिपरावृत्तिः नावयविनि इति

पीलुपाकवादिन आहुः । पीलुपाकवादिमते विजातीयाग्निसंयोगादारम्भ-

कसंयोगनाशेन द्यणुकपर्यन्तावयविनाशे सति परमाणौ रक्ताद्युत्पत्तिः ।

गादिप्रक्रमेण पुनर्धणुकादिमहावयविपर्यन्तानामुत्पत्तिर्भवतीति । पिठर-

विजयादारम्भकसंयोगानुगुणक्रियायुत्पत्यारम्भको

पाकवादिमते तु अवयविनां सच्छिद्रतया विजातीयाग्निसंयोगात्ते-

षामपि रूपादिपरावृत्तिर्भवति । न तु तत्रावयविनां नाशः । प्रत्यभिज्ञा-

विरोधात् इत्याहुः (वै० वि० ७/११६ पृ० २८७-२८९) ।