2023-10-28 19:07:17 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

४९४
 
न्यायकोशः ।
 
सहस्राक्ष त्रिवर्षपरमोषितैः ॥ एष धर्मो महाञ्च्छक महागुणफलोदयः

इति ( भार० आश्व० अ० ९१) । अपरं च पिष्टमानीयतामत्र पश्वर्थ-

मिति भाषते । ऋषय ऊचुः । बीजैर्यज्ञेषु यष्टव्यमिति वै वैदिकी श्रुतिः ।

१ अजसंज्ञानि बीजानि छागं नो हन्तुमर्हथ ॥ नैष धर्मः सतां देवाः कथं

बध्येत वै पशुः इत्यादि ( भार० शान्ति० मोक्षधर्मे० ) । अन्यत्र चेद-

मुक्तम् । इदमन्यत्तु वक्ष्यामि प्रमाणं विधिनिर्मितम् । पुराणमृषिभिर्जुष्टं

वेषु परिनिष्ठितम् ॥ प्रवृत्तिलक्षणो धर्मः प्रजार्थिभिरुतः

इत्यादिना काम्ये कर्मणि प्रत्यक्षं मांसमुक्त्वा निष्कामकर्मणीदमुच्यते य

इच्छेत्पुरुषोत्यन्तमात्मानं निरुपद्रवम् । स वर्जयेत मांसा

सर्वशः । श्रूयते हि पुरा कल्पे नृणां व्रीहिमयः पशुः । येनायजन्त

यज्वानः पुण्यश्लोकपरायणाः ॥ ऋषिभिः संशयं पृष्टो वसुश्चेदिपतिः
 

पुरा इत्यादि ( भार० शान्ति० दानधर्मे ) ।
 

 
<
पाकः->
१ [क] विजातीयतेजःसंयोगः (त० भा० ) ( त० दी० )

( न्या० बो० ) । रूपादिपरावृत्तिफलको विजातीय तेजः संयोगः इत्यर्थः

( दि० गु० ) ( वै० वि० ७१११६ पृ० २८७ ) । यथा आमनि
 

घटे श्यामरूपादिपरावृत्तिफलकोग्निसंयोगः । अत्रोच्यते । स च संयोगो
 

नानाजातीयः । तथाहि रूपजनको विजातीयतेजः संयोगः । तदपेक्षया

रसजनको विजातीयः । एवं गन्धजनकोपि । एवं स्पर्शजनकोपि तथा ।

एवंप्रकारेण भिन्नभिन्नजातीयाः पाकाः कार्यवैलक्षण्येन कल्पनीयाः

( न्या० बो० १ पृ० ५ ) । गदाधरभट्टाचार्याश्चाहुः । रूपरसगन्ध-

स्पर्शानां नाशं प्रति तु एकजातीय एवान्झिसंयोग: कारणम् इति
० चतुर्द लक्षा

। पृ० १२ ) । इदं चात्र बोध्यम् । कारणगुणपूर्वकाः पृथिव्यां पाकजाः

स्पर्शनाशकाले रूपनाश आवश्यकः इति ( ग० चतुर्द० :
 

 

प्रसङ्गात्पाकजप्रक्रिया चिन्त्यते । तत्र कार्यकारणसमुदाय एव पच्य

इति पिठरपाकवादिनो नैयायिकाः आहुः । पीलवः परमाणय एव

स्वतन्त्राः पच्यन्ते । तत्रैव पूर्वरूपनाशाप्रिमरूपायुत्पत्तिः । कारणगुण-
a