2023-10-28 19:06:43 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

न्यायकोश: ।
 
सहान्वयस्तदा प्रसज्य प्रतिषेधः । व्यस्तस्य तु नञः क्रिययैवान्वयात्प्रसज्य-

प्रतिषेध एवेत्याहुः । तदुक्तम् । पर्युदासः स विज्ञेयो यत्रोत्तरपदेन

नञ् । प्रतिषेधः स विज्ञेयः क्रियया सह यत्र नञ् ॥ इति ।

 
<
पर्षत् - >
चत्वारो ब्राह्मणा वेदशास्त्रधर्मज्ञाः पर्षत् ( मिताक्षरा अ० ११९ ) ।
 
-
 

 
<
पललम् - >
तिलपिष्टम् (पु० चि० पृ० ३०७)।

 
<
पशु:->
१ [क] पशुत्वसंबन्धी पशुः । सोपि द्विविधः साञ्जनो निरञ्जन-

श्चेति । तत्र साञ्जनः शरीरेन्द्रियसंबन्धी । निरञ्जनस्तु तद्रहितः ( सर्व०

पृ० १६८ नकु० ) । [ख ] अनणुक्षेत्रज्ञादिपदवेदनीयो जीवात्मा

पशु: ( सर्व० सं० पृ० १८० शैव० ) । पाशुपतशास्त्रज्ञास्तु सर्व-

जीवानां पशुत्वं मन्यन्ते । २ लोमलालवान् ( श० प्र० श्लो० १००

टीं० ) । यथा पशुना रुद्रं यजते इत्यादौ मायावादिमते छागादीनां

पशुत्वम् । अत्र मध्वाचार्यमतानुयायिनो वैष्णवाः समुत्तिष्ठन्ते । नायं

साक्षात्पशुर्यज्ञादौ विहितः । अपि तु पिष्टात्मकहविर्द्रव्यमेव तत्र विहि-
.
 

तम् । पिष्टपशोरेव श्रुतिस्मृतिपुराणादौ निर्वपणप्रतिपादनात् । साक्षात्प-

श्वालम्भनं तु काम्यमेव । तत्र श्येनादिवन्नरकाद्य निष्टान्तरस्यापि श्रवणात्

इति । अत्र श्रुतिः प्रमाणम् । पुरुषं वै देवाः पशुमालभन्त इत्यादिना

पुरुषादिभ्यो मेधोत्क्रमणमुक्त्वा त एत उत्क्रान्तमेधा अमेध्याः पशव-

स्तस्मादेतेषां नाश्नीयात्तमस्यामन्वगच्छत्सोनुगतो व्रीहिरभवत्तद्यत्पशौ पुरो-

डाशमनु निर्वपति समेधेन नः पशुनेष्टमसत्केवलेन नः पशुनेष्टमसदिति

समेघेन हास्य पशुनेष्टं भवति केवलेन हास्य पशुनेष्टं भवति य एवं वेद

इति ( ऋ० ब्राह्म० २ ख० ८) । तदाहुः यदेष हविरेव यत्पशुः

(६० ब्राह्म० २ ख० ११) इति च । स्मृतिरपि कुर्याद्धृतपशुं सङ्गे

कुर्यात्पिष्टपशुं तथा । न स्वेव तु वृथा हन्तुं पशुमिच्छेत्कदाचन ॥

इति ( मनु० अ० ५ श्लो० ३७) । महाभारतमपि न हि यज्ञे

पशुगणा विधिदृष्टाः पुरंदर । धर्मोपघातकस्त्वेष समारम्भस्तव प्रभो ॥

नायं धर्मकृतो यज्ञो न हिंसा धर्म उच्यते । आगमेनैव ते यज्ञं कुर्वन्तु

यदि चेच्छसि ॥ विधिदृष्टेन यज्ञेन धर्मस्ते सुमहान् भवेत् । यज़ बीजैः
 
४९३