2023-10-28 19:05:56 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

४९२
 
न्यायकोशः ।
 
मानयेत्यत्र पर्युदासे पूर्वपदे नञ्युत्तरपदार्थसंबन्धिनि क्षत्रिये लक्षणा ।

अघटः पट इत्यादौ पर्युदासाथै नज्यपि सामानाधिकरण्यादभाववलक्षणा ।

व्यासेपि न घटः पट इत्यादौ तथैव । यथा शुक्लपट इत्यत्र शुक्लवलक्षणा ।

न पचतीत्यादौ क्रियासंबन्धे भूतले न घट इत्यादौ च प्रसज्यप्रतिषेधे तु

। नञो मुख्यार्थता । यजतिषु ये यजामहं कत
 

पर्युदासे नञ् । तेनायमर्थः नानुयाजेषु अनुयाजव्यतिरिक्तेषु यजतिषु ये

यजामहे इति मन्त्रं करोति इति ( चि० ४) । अत्रेदं बोध्यम् । नव-

जलधरः संनद्धोयं न दृप्तनिशाचरः इत्यादौ तत्पुरुषसमासे गुणीमावे

नञः पर्युदासतया निषेधस्य विधेयतानवगमः । जुगोपात्मानमत्रस्तो

भेजे धर्ममनातुरः । अनुराददे सोर्थानसक्तः सुखमन्वभूत् ॥ इत्यादौ
●●

अत्रस्तादितामनूद्यात्मगोपनाद्येव विधेयमिति नञः पर्युदासतया गुण-

भावो युक्तः इति । [ख फलप्रत्यवायशून्यतया समभिव्याहृतपदार्थ-

भेदः । यथा रात्रौ श्राद्धं न कुर्वीत इत्यादौ नञर्थः पर्युदासः । तथाहि

रात्रौ श्राद्धं न कुर्वीत इत्यादौ रात्रौ श्राद्धे न फलम् न वा प्रत्यवायः इति

रात्रिः पर्युदस्ता तद्भिन्ना दिनावस्था नञा बोध्यते इति । अत्र मीमांसकाः ।

पर्युदासः स विज्ञेयो यत्र पूर्वपदेन नञ् । प्रतिषेधः स विज्ञेयो यत्रोत्तर-

पदेन नञ् ॥ (मी० न्या० पृ० ६२ ) । अयमर्थः । उत्तरपदं

प्रत्ययः । तदन्यत्पूर्वेपदम् । तत्र यदा प्रत्ययार्थभावनया सह नमः

संबन्धस्तदा प्रतिषेधः । यदा तु प्रत्ययार्थभावनाव्यतिरिक्तेन धात्वर्थेन

वा पदार्थेन सह नञः संबन्धस्तदा पर्युदासः । आयोदाहरणम् न

कल भक्षयेत् इति । अत्र हि लिङर्थप्रवर्तनया सह नञः संबन्धः ।
 

नञश्चैष स्वभावो यत्स्वसंबन्धि प्रतिपक्षबोधकत्वम् । तदत्र
 
बोधः
 

पक्षभूतां निवर्तनां प्रतिपादयति । तथा च कलअकर्मकभक्षणनिवर्तनेति

वः । द्वितीयोदाहरणं तु नेक्षेतोद्यन्तमादित्यमिति । अत्र हि

सह नञः संबन्धः । तथा च नजीक्षतिभ्यामीक्षणविरोधी ने इस

नीक्षणसंकल्पः प्रतिपाद्यते । वैयाकरणास्तु समासघटकस्य नञो यदो-
त्त

रपदार्थेन सहान्वयस्तदा पर्युदासः । यदा च तादृशस्यैव नञः क्रियया
 
प्रवर्तनाप्रति-