This page has not been fully proofread.

४९२
 
न्यायकोशः ।
 
मानयेत्यत्र पर्युदासे पूर्वपदे नञ्युत्तरपदार्थसंबन्धिनि क्षत्रिये लक्षणा ।
अघटः पट इत्यादौ पर्युदासाथै नज्यपि सामानाधिकरण्यादभाववलक्षणा ।
व्यासेपि न घटः पट इत्यादौ तथैव । यथा शुक्लपट इत्यत्र शुक्लवलक्षणा ।
न पचतीत्यादौ क्रियासंबन्धे भूतले न घट इत्यादौ च प्रसज्यप्रतिषेधे तु
। नञो मुख्यार्थता । यजतिषु ये यजामहं कत
 
पर्युदासे नञ् । तेनायमर्थः नानुयाजेषु अनुयाजव्यतिरिक्तेषु यजतिषु ये
• यजामहे इति मन्त्रं करोति इति ( चि० ४) । अत्रेदं बोध्यम् । नव-
जलधरः संनद्धोयं न दृप्तनिशाचरः इत्यादौ तत्पुरुषसमासे गुणीमावे
नञः पर्युदासतया निषेधस्य विधेयतानवगमः । जुगोपात्मानमत्रस्तो
भेजे धर्ममनातुरः । अनुराददे सोर्थानसक्तः सुखमन्वभूत् ॥ इत्यादौ
●●अत्रस्तादितामनूद्यात्मगोपनाद्येव विधेयमिति नञः पर्युदासतया गुण-
भावो युक्तः इति । [ख फलप्रत्यवायशून्यतया समभिव्याहृतपदार्थ-
भेदः । यथा रात्रौ श्राद्धं न कुर्वीत इत्यादौ नञर्थः पर्युदासः । तथाहि
रात्रौ श्राद्धं न कुर्वीत इत्यादौ रात्रौ श्राद्धे न फलम् न वा प्रत्यवायः इति
रात्रिः पर्युदस्ता तद्भिन्ना दिनावस्था नञा बोध्यते इति । अत्र मीमांसकाः ।
पर्युदासः स विज्ञेयो यत्र पूर्वपदेन नञ् । प्रतिषेधः स विज्ञेयो यत्रोत्तर-
पदेन नञ् ॥ (मी० न्या० पृ० ६२ ) । अयमर्थः । उत्तरपदं
प्रत्ययः । तदन्यत्पूर्वेपदम् । तत्र यदा प्रत्ययार्थभावनया सह नमः
संबन्धस्तदा प्रतिषेधः । यदा तु प्रत्ययार्थभावनाव्यतिरिक्तेन धात्वर्थेन
वा पदार्थेन सह नञः संबन्धस्तदा पर्युदासः । आयोदाहरणम् न
कल भक्षयेत् इति । अत्र हि लिङर्थप्रवर्तनया सह नञः संबन्धः ।
 
नञश्चैष स्वभावो यत्स्वसंबन्धि प्रतिपक्षबोधकत्वम् । तदत्र
 
बोधः
 
पक्षभूतां निवर्तनां प्रतिपादयति । तथा च कलअकर्मकभक्षणनिवर्तनेति
वः । द्वितीयोदाहरणं तु नेक्षेतोद्यन्तमादित्यमिति । अत्र हि
सह नञः संबन्धः । तथा च नजीक्षतिभ्यामीक्षणविरोधी ने इस
• नीक्षणसंकल्पः प्रतिपाद्यते । वैयाकरणास्तु समासघटकस्य नञो यदो-
त्तरपदार्थेन सहान्वयस्तदा पर्युदासः । यदा च तादृशस्यैव नञः क्रियया
 
प्रवर्तनाप्रति-