2023-10-28 19:05:24 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

न्यायकोशः ।
 
४९१
 
वारणाय
 
प्रतिबध्यतेत्यादिगादाधरीयहेत्वाभासलक्षणे पर्वतो महानसीयवह्निमानित्यत्र

पर्वतो वह्निमान् इत्यनुमितेरपि तादृशानुमितित्वापत्या तत्रयबाघेव्याप्ति -

साध्यतावच्छेदकतापर्याप्यधिकरणधर्मपर्याप्तावच्छेदकताक-

प्रकारताकपक्षविशेष्यकानुमितित्वव्यापकत्वम् इति विवक्षणे च उभयं

प्रत्येकानतिरिक्तम् इति न्यायेन शुद्धवह्नित्वेपि साध्यतावच्छेदकतापर्याप्तेः

सत्त्वेन पुनस्तदोषापत्त्या साध्यतावच्छेदकताव्यापकावच्छेदकताकप्रकार-

ताकपक्षविशेष्यकानुमितित्वव्यापकप्रतिबध्यतेत्यादि विवक्षणीयम् । तेन

पर्वतो वह्निमान् इति ज्ञानीयप्रकारतारूपन्यूनधर्मव्युदासः इति ।

 
<
पर्यायः>
१ [क] समानप्रवृत्तिनिमित्तकस्वे सति विभिन्नानुपूर्वीकत्वम् ।

यथा घट: करीर: कलश: इति पर्यायः । अत्र पर्यायत्वं च शक्य-

तावच्छेदकैक्ये सति विभिन्नशक्ततावच्छेदककत्वम् ( त० प्र० ख० ४

पृ० ८३ ) । [ख] समानार्थबोधकं शब्दान्तरम् इति केचिदाहुः ।

२ अनुक्रमः । ३ प्रकार: । ४ अवसरः । ५ निर्माणम् । ६ द्रव्य-

धर्मविशेषः इत्यप्यन्य आहुः ( वाच० ) । ७ अर्थालंकारविशेषः ।

 
<
पर्युदासः>
[क] अन्योन्याभावः ( म० प्र० ४ ० ४८ ) । यथा

घट: टोन भवतीत्यादौ अब्राह्मणमानयेत्यादौ च नबर्थः । पर्युदास-

शब्दोन्योन्याभावे रूढः । पर्युदासे नञ् प्रसज्यप्रतिषेधे नञ् इति शब्द-

चिन्तामण्यादौ प्रयोगात् । प्राञ्चस्तु पर्युदासः प्रसज्यप्रतिषेधश्च नञ्-

विशेषसंज्ञे एवेत्याहुः । तन्मते पर्युदासत्वं चान्योन्याभावबोधकत्वम्

इति विज्ञेयम् । अत्र प्राञ्चो नैयायिका आहुः । पर्युदासस्थ

नजो लाक्षणिकत्वम् इति । नव्यास्तु तत्र शक्त्यैवार्थबोधकत्वम् इति

माइः ( म० प्र० ४ पृ० ४८) । अत्रोक्तमभियुक्तैः । प्राधान्यं हि

विधेर्यत्र प्रतिषेधेप्र[^१]धानता । पर्युदासः स विज्ञेयो यत्रोत्तरपदेन नञ् ॥
 

इति । तदर्थश्च प्रथमान्तप्रतियोगिवाचकपदसमभिव्याहृतेन समासघटकेन
 

वा नजा (नञ् न एतदन्यतरेण शब्देन ) उत्तरपदार्थेन सह यस्यार्थस्या-

इति । अत्र मणिकारा आहुः । नञ्समासे अब्राह्मण-

 
[^
] अप्रधानतेति पदच्छेदः ।