This page has not been fully proofread.

न्यायकोशः ।
 
४९१
 
वारणाय
 
प्रतिबध्यतेत्यादिगादाधरीयहेत्वाभासलक्षणे पर्वतो महानसीयवह्निमानित्यत्र
पर्वतो वह्निमान् इत्यनुमितेरपि तादृशानुमितित्वापत्या तत्रयबाघेव्याप्ति -
साध्यतावच्छेदकतापर्याप्यधिकरणधर्मपर्याप्तावच्छेदकताक-
प्रकारताकपक्षविशेष्यकानुमितित्वव्यापकत्वम् इति विवक्षणे च उभयं
प्रत्येकानतिरिक्तम् इति न्यायेन शुद्धवह्नित्वेपि साध्यतावच्छेदकतापर्याप्तेः
सत्त्वेन पुनस्तदोषापत्त्या साध्यतावच्छेदकताव्यापकावच्छेदकताकप्रकार-
ताकपक्षविशेष्यकानुमितित्वव्यापकप्रतिबध्यतेत्यादि विवक्षणीयम् । तेन
पर्वतो वह्निमान् इति ज्ञानीयप्रकारतारूपन्यूनधर्मव्युदासः इति ।
पर्यायः – १ [क] समानप्रवृत्तिनिमित्तकस्वे सति विभिन्नानुपूर्वीकत्वम् ।
यथा घट: करीर: कलश: इति पर्यायः । अत्र पर्यायत्वं च शक्य-
तावच्छेदकैक्ये सति विभिन्नशक्ततावच्छेदककत्वम् ( त० प्र० ख० ४
पृ० ८३ ) । [ख] समानार्थबोधकं शब्दान्तरम् इति केचिदाहुः ।
२ अनुक्रमः । ३ प्रकार: । ४ अवसरः । ५ निर्माणम् । ६ द्रव्य-
धर्मविशेषः इत्यप्यन्य आहुः ( वाच० ) । ७ अर्थालंकारविशेषः ।
पर्युदासः–[क] अन्योन्याभावः ( म० प्र० ४ ० ४८ ) । यथा
घट: टोन भवतीत्यादौ अब्राह्मणमानयेत्यादौ च नबर्थः । पर्युदास-
शब्दोन्योन्याभावे रूढः । पर्युदासे नञ् प्रसज्यप्रतिषेधे नञ् इति शब्द-
● चिन्तामण्यादौ प्रयोगात् । प्राञ्चस्तु पर्युदासः प्रसज्यप्रतिषेधश्च नञ्-
विशेषसंज्ञे एवेत्याहुः । तन्मते पर्युदासत्वं चान्योन्याभावबोधकत्वम्
इति विज्ञेयम् । अत्र प्राञ्चो नैयायिका आहुः । पर्युदासस्थ
नजो लाक्षणिकत्वम् इति । नव्यास्तु तत्र शक्त्यैवार्थबोधकत्वम् इति
माइः ( म० प्र० ४ पृ० ४८) । अत्रोक्तमभियुक्तैः । प्राधान्यं हि
विधेर्यत्र प्रतिषेधेप्रधानता । पर्युदासः स विज्ञेयो यत्रोत्तरपदेन नञ् ॥
 
इति । तदर्थश्च प्रथमान्तप्रतियोगिवाचकपदसमभिव्याहृतेन समासघटकेन
 
वा नजा (नञ् न एतदन्यतरेण शब्देन ) उत्तरपदार्थेन सह यस्यार्थस्या-
इति । अत्र मणिकारा आहुः । नञ्समासे अब्राह्मण-
१ अप्रधानतेति पदच्छेदः ।