2023-10-28 19:01:05 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

न्यायकोशः ।
 
NE
 
न्वये
 
प्राप्ततया पक्षे अप्रांध्यभावात् । किंतु लक्षणया पञ्चेतरपञ्चनखानां

श्वाविधादीनां भक्षणनिवृत्तिपरम् इति भवति परिसंख्या ( म०प्र०

पृ० ६१-६२ ) (लौ० भा० ४ पृ० ४१ ) । अयं भावः । दोष-

त्रयवती परिसंख्या भवति । दोषत्रयं च श्रुतहानि: अश्रुतकल्पना

प्राप्तबाघश्चेति ।
श्रुञ्चभक्षणस्य हानात् अश्रुतायाः पञ्चेतर-

पश्चनखभक्षणनिवृत्तेः कल्पनात् रागतः प्राप्तस्य पञ्चेतरपञ्चनखभक्षणस्य

बाधनाच ( म० प्र० ४ पृ० ६२ ) (लो० भा० पृ० ४१ ) ।

केचित्तु इतरव्यवच्छेदस्य आर्थत्वशाब्दत्वाभ्यां नियमपरिसंख्ययोर्भेदः ।

तथाहि । याजनाध्यापनप्रतिग्रहैर्ब्राह्मणो धनमर्जये दित्यादौ वित्तार्जन उपा-

यत्रयसंबन्धस्य शब्दात्प्रतीतौ कृष्यादीनामनन्वयोर्थात्सिद्ध्यति । येषामेका

अपरानन्वयः तेषां समुच्चयासंभवात् तत्रेतरोपायव्युदासे शब्दतात्पर्य

कल्प्यते । परंतु धूमोस्तीति वाक्ये बहेरिव तस्यार्थत्वम् । परिसंख्यायां तु

भक्षणक्रियायां पञ्चानामप्यन्वयसंभवादितरपञ्च नखव्युदासो नार्थः । तत्र

पश्चानामपि समुच्चयसंभवात् । किंतु शाब्दः । एव च भक्ष्यपञ्चनखपद-

योर्विरोधिलक्षणया पञ्चेतरपञ्चनखा न भक्ष्याः इति वाक्यार्थः । तथा च

उपस्थितपदार्थ परित्यागात् अनुपस्थित पदार्थकल्पनात् अभावविधत्वाच

नियमापेक्षया दोषत्रयवती परिसंख्या इत्याहुः ( त० प्र० ख० ४ पृ०

१०९) । [घ ] प्रसञ्जकप्रवृत्तिविरोधिविधिः । यथा इमामगृभ्णन् रश-

नामृतस्येत्यश्वाभिधानीमादत्ते (तै० सं० ५/१२) । तथाहि । इमामिया-

दिमन्त्रस्य रशनामात्रग्रहणप्रकाशकतया अश्वरशनादान इव गर्दभरशनाया

आदानेपि मन्त्रस्य विनियोगो लिङ्गागम्यते । तथा च तदादानक लेपि

सम्मन्न्रपाठप्रवृत्त्या तत्रापि तन्मन्त्रसंबन्ध: स्यात् । एतस्माच्च विधितः

प्रथममश्वरशनाग्रहणे एतन्मन्त्रविनियोगलाभे निराकाङ्क्षतया गर्दभर-

शनाप्रहणे न तद्विनियोगलाभ इति एतद्विधेर्विधेयस्येतरोद्देश्यसंबन्धप्रस-

अकमवृत्तिविरोधिता इति (षाच० ) ।

 
<
परीक्षकः -.
[क] नैसर्गिकं वैनयिकं बुद्ध्यतिशयं प्राप्तः । परीक्षक-

तर्केण प्रमाणैर परीक्षितुमर्हतीति (वात्स्या० ११ १/२५) । य
 
४८७