This page has not been fully proofread.

न्यायकोशः ।
 
NE
 
न्वये
 
प्राप्ततया पक्षे अप्रांध्यभावात् । किंतु लक्षणया पञ्चेतरपञ्चनखानां
श्वाविधादीनां भक्षणनिवृत्तिपरम् इति भवति परिसंख्या ( म०प्र०
पृ० ६१-६२ ) (लौ० भा० ४ पृ० ४१ ) । अयं भावः । दोष-
त्रयवती परिसंख्या भवति । दोषत्रयं च श्रुतहानि: अश्रुतकल्पना
प्राप्तबाघश्चेति ।
श्रुञ्चभक्षणस्य हानात् अश्रुतायाः पञ्चेतर-
पश्चनखभक्षणनिवृत्तेः कल्पनात् रागतः प्राप्तस्य पञ्चेतरपञ्चनखभक्षणस्य
• बाधनाच ( म० प्र० ४ पृ० ६२ ) (लो० भा० पृ० ४१ ) ।
केचित्तु इतरव्यवच्छेदस्य आर्थत्वशाब्दत्वाभ्यां नियमपरिसंख्ययोर्भेदः ।
तथाहि । याजनाध्यापनप्रतिग्रहैर्ब्राह्मणो धनमर्जये दित्यादौ वित्तार्जन उपा-
• यत्रयसंबन्धस्य शब्दात्प्रतीतौ कृष्यादीनामनन्वयोर्थात्सिद्ध्यति । येषामेका
अपरानन्वयः तेषां समुच्चयासंभवात् तत्रेतरोपायव्युदासे शब्दतात्पर्य
कल्प्यते । परंतु धूमोस्तीति वाक्ये बहेरिव तस्यार्थत्वम् । परिसंख्यायां तु
•भक्षणक्रियायां पञ्चानामप्यन्वयसंभवादितरपञ्च नखव्युदासो नार्थः । तत्र
पश्चानामपि समुच्चयसंभवात् । किंतु शाब्दः । एव च भक्ष्यपञ्चनखपद-
योर्विरोधिलक्षणया पञ्चेतरपञ्चनखा न भक्ष्याः इति वाक्यार्थः । तथा च
उपस्थितपदार्थ परित्यागात् अनुपस्थित पदार्थकल्पनात् अभावविधत्वाच
नियमापेक्षया दोषत्रयवती परिसंख्या इत्याहुः ( त० प्र० ख० ४ पृ०
१०९) । [घ ] प्रसञ्जकप्रवृत्तिविरोधिविधिः । यथा इमामगृभ्णन् रश-
नामृतस्येत्यश्वाभिधानीमादत्ते (तै० सं० ५/१२) । तथाहि । इमामिया-
दिमन्त्रस्य रशनामात्रग्रहणप्रकाशकतया अश्वरशनादान इव गर्दभरशनाया
आदानेपि मन्त्रस्य विनियोगो लिङ्गागम्यते । तथा च तदादानक लेपि
• सम्मन्न्रपाठप्रवृत्त्या तत्रापि तन्मन्त्रसंबन्ध: स्यात् । एतस्माच्च विधितः
प्रथममश्वरशनाग्रहणे एतन्मन्त्रविनियोगलाभे निराकाङ्क्षतया गर्दभर-
शनाप्रहणे न तद्विनियोगलाभ इति एतद्विधेर्विधेयस्येतरोद्देश्यसंबन्धप्रस-
अकमवृत्तिविरोधिता इति (षाच० ) ।
परीक्षकः - [क] नैसर्गिकं वैनयिकं बुद्ध्यतिशयं प्राप्तः । परीक्षक-
तर्केण प्रमाणैर परीक्षितुमर्हतीति (वात्स्या० ११ १/२५) । य
 
४८७