2023-10-28 18:57:38 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

न्यायकोशः ।
 
४८३
 
परिमाणोत्कर्षदर्शनात् प्रचय: कारणम् । बहुत्वस्याभावात् । महत्त्वस्य

सत्त्वेपि परिमाणोत्कर्षे प्रत्यप्रयोजकत्वात् । एवं च सति यदि महत्त्वं
 

तत्र कारणम् तदा न दोषः । तदुक्तम् द्वाभ्यामेकेन सर्वैर्वा इति

(बै० उ० ७/१।९) ।
 
-
 

 
<
परिवित्तिः>
दाराग्निहोत्रसंयोगं यः करोत्यग्रजे सति । परिवेत्ता स विज्ञेयः

परिवित्तिस्तु पूर्वजः ॥ ( मिताक्षरा अ० १ श्लो० २२३ ) ।

 
<
परिवृत्तिसहः - >
( शब्द: ) यौगिक: शब्दविशेषः । अत्र व्युत्पत्तिः परि

वृत्तिं परावृत्तिम् सहते इति परिवृत्तिसहः । सहधातोरचूप्रत्ययः । अयं

च पर्यायपरिवृत्तिसहः इत्यप्युच्यते । परिवृत्तिसहत्वं च समानार्थकत्वे

सति विभिन्नानुपूर्वीकत्वम् । स च पूर्वोत्तरपदयोः परावृत्त्या योगलभ्यार्थ

बोधयतीति तस्य तथात्वम् । स च त्रिविधः । पूर्वपदपरिवृत्तिसहः

उत्तरपदपरिवृत्तिसहः उभयपदपरिवृत्तिसहश्च । तत्राद्यः जलधि दिनकर

इत्यादिशब्दः । द्वितीयः वडवानलादिशब्दः । तृतीयः स्वस्वामिभाव-

संबन्धरूपेर्थे भूपालादिशब्दः । तत्र जलधिशब्दे जलपदस्थाने तोयादि-

पदस्य दिनकरशब्दे च दिनपदस्थाने दिवसादिपदस्य प्रक्षेपेण समा- .

नार्थप्रतीतेः जल दिन इति पूर्वपदमेव पर्यायपरिवर्तनं क्षमते न तु

घि कर इत्युत्तरपदम् । तत्स्थान आधारादिपदप्रक्षेपे जलाधार-

दिनजनकेत्यादिपदात् समुद्रसूर्याद्यर्थाप्रतीतेः । वडवानलशब्दे चा-

वर्तनं क्षमते न तु वडवेति पूर्वपदम् । वडवापदस्थानेश्वादिपदप्रक्षेपे

नळपदस्थाने यादिपदप्रक्षेपेण समानार्थप्रतीतेरनल इत्युत्तरपदमेव परि

अश्वानल हयानल इत्यादिपदात्तादृशार्थाप्रतीते: । भूपालपदे च तादृश-

संबन्धस्य भूपाळादिपदादिव पृथ्वीभृत् महीपति इत्यादिपदादपि बोधनेन

समानार्थप्रतीतेस्तस्योभयपदपरिवृत्तिसहत्वं संगच्छते । तथा चोक्तं हेम-

चन्द्रेण वार्ष्यादिषु पदे पूर्वे वाडवान्यादिषूत्तरे । द्वयेपि भूभृद

पर्यायपरिवर्तनम् ॥ एवं परावृत्तिसहा योगाः स्युरिति यौगिकाः । मिश्राः

पुनः परावृत्त्यसहा गीर्वाणसंनिभाः ॥ इति ( वाच ० ) । उभयपद-

परिवृत्त्यसहं तु एतन्त्रितयलक्षणभिन्नं रूढमेव । तद्यथा गीर्वाणादिपदम्