न्यायकोशः /537
This page has not been fully proofread.
न्यायकोशः ।
४८३
परिमाणोत्कर्षदर्शनात् प्रचय: कारणम् । बहुत्वस्याभावात् । महत्त्वस्य
सत्त्वेपि परिमाणोत्कर्षे प्रत्यप्रयोजकत्वात् । एवं च सति यदि महत्त्वं
तत्र कारणम् तदा न दोषः । तदुक्तम् द्वाभ्यामेकेन सर्वैर्वा इति
(बै० उ० ७/१।९) ।
-
परिवित्तिः— दाराग्निहोत्रसंयोगं यः करोत्यग्रजे सति । परिवेत्ता स विज्ञेयः
परिवित्तिस्तु पूर्वजः ॥ ( मिताक्षरा अ० १ श्लो० २२३ ) ।
परिवृत्तिसहः - ( शब्द: ) यौगिक: शब्दविशेषः । अत्र व्युत्पत्तिः परि
वृत्तिं परावृत्तिम् सहते इति परिवृत्तिसहः । सहधातोरचूप्रत्ययः । अयं
च पर्यायपरिवृत्तिसहः इत्यप्युच्यते । परिवृत्तिसहत्वं च समानार्थकत्वे
सति विभिन्नानुपूर्वीकत्वम् । स च पूर्वोत्तरपदयोः परावृत्त्या योगलभ्यार्थ
बोधयतीति तस्य तथात्वम् । स च त्रिविधः । पूर्वपदपरिवृत्तिसहः
उत्तरपदपरिवृत्तिसहः उभयपदपरिवृत्तिसहश्च । तत्राद्यः जलधि दिनकर
इत्यादिशब्दः । द्वितीयः वडवानलादिशब्दः । तृतीयः स्वस्वामिभाव-
संबन्धरूपेर्थे भूपालादिशब्दः । तत्र जलधिशब्दे जलपदस्थाने तोयादि-
पदस्य दिनकरशब्दे च दिनपदस्थाने दिवसादिपदस्य प्रक्षेपेण समा- .
नार्थप्रतीतेः जल दिन इति पूर्वपदमेव पर्यायपरिवर्तनं क्षमते न तु
घि कर इत्युत्तरपदम् । तत्स्थान आधारादिपदप्रक्षेपे जलाधार-
दिनजनकेत्यादिपदात् समुद्रसूर्याद्यर्थाप्रतीतेः । वडवानलशब्दे चा-
• वर्तनं क्षमते न तु वडवेति पूर्वपदम् । वडवापदस्थानेश्वादिपदप्रक्षेपे
नळपदस्थाने यादिपदप्रक्षेपेण समानार्थप्रतीतेरनल इत्युत्तरपदमेव परि
अश्वानल हयानल इत्यादिपदात्तादृशार्थाप्रतीते: । भूपालपदे च तादृश-
संबन्धस्य भूपाळादिपदादिव पृथ्वीभृत् महीपति इत्यादिपदादपि बोधनेन
•समानार्थप्रतीतेस्तस्योभयपदपरिवृत्तिसहत्वं संगच्छते । तथा चोक्तं हेम-
चन्द्रेण वार्ष्यादिषु पदे पूर्वे वाडवान्यादिषूत्तरे । द्वयेपि भूभृद
पर्यायपरिवर्तनम् ॥ एवं परावृत्तिसहा योगाः स्युरिति यौगिकाः । मिश्राः
पुनः परावृत्त्यसहा गीर्वाणसंनिभाः ॥ इति ( वाच ० ) । उभयपद-
परिवृत्त्यसहं तु एतन्त्रितयलक्षणभिन्नं रूढमेव । तद्यथा गीर्वाणादिपदम्