2023-10-28 18:57:02 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

न्यायकोशः ।
 
कार्यकादिलक्षणे रूपाद्युत्पत्तिसमकालं महत्त्वं

दीर्घत्वं च करोति । बहुभिर्महद्भिरारब्धे कार्यद्रव्ये कारणमहत्त्वान्येव

महत्त्वमारभन्ते न बहुत्वम् । समानसंख्यैरारब्धेतिशयदर्शनात् । प्रचयस्तु

तूलपिण्डयोर्वर्तमानः पिण्डारम्भकप्रशिथिलसंयोगापेक्ष इतरेतरपिण्डा-

वयवसंयोगापेक्षो वा द्वितूलके महत्त्वमारभते न बहुत्वमहत्त्वानि ।

समानसंख्या परिमाणैरारब्धेतिशयदर्शनात् । द्वित्वसंख्या चाण्वोर्वर्त-

माना यणुके अणुत्वमारभते । महत्त्ववत् त्र्यणुकादौ कारणबहुत्वमहत्त्व-

समानजातीयप्रचयेभ्यो दीर्घत्वस्योत्पत्तिः । अणुत्ववत् ह्यणुके द्विव

संख्यातो ह्रस्वत्वस्योत्पत्तिः । एतच्चतुर्विधमपि परिमाणमुत्पद्य-

नाशादेव विनश्यति इति ( प्रशस्त ० पृ० १६) । उपस्कारेप्युक्तम् ।

परिमाणं चतुर्विधम् । महत्त्वम् अणुत्वम् दीर्घत्वम् हस्वत्वं च । तत्र पर-

ममहत्त्वपरमदीर्घत्वे विभुचतुष्टयवर्तिनी परमाणुत्व परमहस्वत्वे परमाणुव

तिनी । अवान्तराणुत्वावान्तरहस्वत्वे ह्यणुकवर्तिनी । त्रसरेणुमारभ्य महा-

परिमाणद्वयवन्ति । बिल्वामलकादावणुत्वव्यवहारः समिदिक्षुदण्डादिषु

वयविपर्यन्तमवान्तर महत्त्वावान्तर दीर्घवे । एवं च सर्वाप्यपि द्रव्याणि

च ह्रस्वत्वव्यवहारो भाक्तः । भक्तिश्चात्र प्रकर्षभावाभावः । आमलके यः

प्रकर्षभावस्तस्याभावः कुवले । बिल्वे यः प्रकर्षभावस्तस्याभाव आमलके ।

सच गौणमुख्योभयभागित्वात् भक्तिपदवाच्यः । अत्र दीर्घत्वहस्वस्त्रे

नित्ये न वर्तेते इत्येके । परिमाणे एव ते न भवतः इत्यपरे । किंतु

श्चाद्दुः (वै० उ० ७१११८) । इदानीं परिमाणकारणानि परिसंचछे

अणुत्व महस्त्रे द्वे एव परिमाणे न तु चतुर्धा इति सांख्या वेदान्तिन-

कारणबहुत्वाच्च (३० ७१११९ ) । तत्र कारणबहुत्वं केवलं त्र्यणुके

महत्त्वदीर्घत्वे जनयति महत्वप्रचययोस्तष्कारणे अभावात् ।

ज्ञेयम् । तच्च बहुत्वं ईश्वरापेक्षाबुद्धिजन्यम् । तद्दुद्धेरनेक विषयत्वेप्यदृष्ट-

विशेषोपग्रहो नियामकः इति (वै० उ० ७/१/९) । एवम् परमाणु-

व्यगतं द्वित्वं यणुके परिमाणोत्पादकम् । द्वाभ्यां तस्तुभ्यामप्रचिताभ्या-
:

भावात् । यत्र च दाभ्यां तूलकपिण्डाभ्यां तूलकपिण्डान्तरारम्भस्तत्र

मारब्धे पढे केवलं महत्त्वमेवासमवायिकारणम् । बहुश्वप्रचययोस्तत्रा-
४८२
 
-
 
अत्रेद