2023-10-28 18:49:21 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

न्यायकोशः ।
 
४७७
 
-
 
<परार्थानुमानम्>
( अनुमानम् ) १ [ क ] न्यायप्रयोज्यानुमानम् (न्या०

बो० २ पृ० १५) (चि० २५० ७६ ) । यथा परसमवेतानु-

मितिकरणं लिङ्गपरामर्शः परार्थानुमानम् । अत्र परस्य मध्यस्थस्यार्थः

प्रयोजनं साध्यानुमितिरूपं मध्यस्थसंशयनिवृत्तिरूपं वा यस्मात् इति

व्युत्पत्तिर्दृष्टव्या ( नील० २ पृ० २१ ) । [ख] येन परं प्रतिपादयति

तत् परार्थानुमानम् इति ( न्या० वि० परि० २ पृ० २१ ) ।

[ग] पञ्चावयवेनैव वाक्येन संशयित विपर्यस्ताव्युत्पन्नानां परेषां

निश्चितार्थप्रतिपादनं परार्थानुमानं विज्ञेयम् । अथावयवाः पुनः प्रतिज्ञा -

पदेश निदर्शनानुसंधान प्रत्याम्नायाः इति ( प्रशस्त० २ पृ० २८ ) ।

२ पञ्चावयववाक्यम् ( नील० २ पृ० २२ ) । तथा चोक्तम् ।

परार्थानुमानं शब्दात्मकम् । स्वार्थानुमानं तु ज्ञानात्मकम् ( न्याय बिन्दु

टी० प० २ पृ० २१ ) । अयं भावः । तस्य शब्दात्मकत्वेपि अनु-

विज्ञेयम् । परार्थानुमानप्रयोजके पञ्चावयववाक्ये परार्थानुमानशब्दस्यौप-

मानविषयत्वेन अविनाभावोपनायकत्वेन वानुमानत्वम् गौणम् इति

चारिक प्रयोगः इति ( नील० २ पृ० २२) । अनेन प्रतिपादिता-

लिङ्गापरोप्यग्निं वह्निमान् धूमादित्यादौ प्रतिपद्यते ( त० सं० ) । यथा

यत्तु कश्चित्स्वयं धूमादग्निमनुमाय परप्रतिपत्त्यर्थं पञ्चावयवोपेतमनुमान-

वाक्यं प्रयु तत् परार्थानुमानम् ( त० भा० २ प्रमाण० पृ० ११ )

( त० सं० ) इत्यादौ पर्वतोग्निमान् धूमवत्त्वात् यो यो धूमवान्

सोग्निमान्यथा महानसः तथा चायम् तस्मात्तथा इति पञ्चावयववाक्यं

( प्रतिज्ञादिसमुदाय:) परार्थानुमानम् (त० सं० ) ( नील० २ पृ० २२) ।

अत्र परस्य प्रतिवादिनोर्थो निवृत्तिर्यस्मात् इति व्युत्पत्तिर्दृष्टव्येति केचित् ।

 
<
रावरणम् - >
शूर्पेण तण्डुलानां कणेभ्यो विवेचनम् ( जै० न्या० अ० ५
 

 
O
 

पा० २ अधि० ७ ) ।
 

 
<
रि>
( अव्ययम्) १ समन्ततो भावः । यथा परिभ्रमति इति । २ व्याप्तिः ।

यथा परिणतः इति । ३ दोषकथनम् । यथा परिवादः इति । ४ भूषणम्।

यथा परिष्करोति इति । ५ आश्लेषः । यथा परिष्वजते इति ।
 
2