This page has not been fully proofread.

४७४
 
न्यायकोशः ।
 
लक्षणं बोध्यते न तु पुत्रीयते इत्यादौ । इच्छार्थस्य क्यचो निवेशादिति
ज्ञेयम् ( श० प्र० श्लो० ९८ टी० ) । अत्र विशेषस्तु आत्मनेपद-
शब्दव्याख्यानावसर उक्तः इति नात्र कथ्यते ।
 
पराजयः—१ युद्धनिवृत्तिः । यथा रणात् पराजयते इत्यत्र धात्वर्थः । अत्र
पञ्चम्यर्थो द्वेषः । तथा च रणगोचरद्वेषजन्ययुद्धनिवृत्तिमान् इत्येवं तत्र
बोधः । कृत्यसाध्यत्वधीप्रयुक्तप्रवृत्त्यभाववत्त्वम् इति केचिद्वदन्ति । अत्रार्थे
रणात्पराजयत इत्यत्र पञ्चम्यर्थो विशेष्यत्वम् । तच्च धात्वर्यैकदेशे बुद्धा
वन्वेति । तथा च रणधर्मिक स्वकृत्य साध्यत्वधीप्रयुक्त प्रवृत्त्यभाववान् इत्या-
कारको बोधः इति । अत्रेदं बोध्यम् । शत्रु पराजयते इत्यादौ त्वभिभव-
हेतुव्यापारः पराजेरर्थः इति धात्वर्थतावच्छेदकफलशालितया शत्रुप्रभृतेः
कर्मत्वमेवेति (श० प्र० श्लो० ६८ टी० पृ० ८१ ) । २
•ष्णुता । यथा कृष्णात्पराजयते शिशुपालः अध्ययनात्पराजयते बालः इत्यादौ
• पराजेरर्थः । असहिष्णुता च द्वेषविशेषः । अभिभवाशक्यत्वज्ञानं वा ।
पञ्चम्याः कर्मत्वमर्थः । श्रीकृष्णम् अध्ययनम् न सहते इति विवरणात् ।
आख्यातस्याश्रयत्वमर्थः । तथा च कृष्णात्पराजयते शिशुपाल इत्यादौ
 
असहि
 
अत्र
 
त्पराजयते बाल इत्यादौ तु अध्ययनविषयकाभिभवाशक्यत्वज्ञानवान्बालः
श्रीकृष्णविषयकाभिभवाशक्यत्वज्ञानवाञ् शिशुपालः इति अध्ययन-
इति क्रमेण बोधः ( का० व्या० पृ० १० )।
 
पराप्रकृतिः - विकारापगमे सत्यं सुवर्ण कुण्डले यथा । विकारापगमो
यत्र तामाहुः प्रकृतिं पराम् ॥ ( सर्व० सं० पृ० ३०९ सांख्य ) ।
 
O
 
परामशे:-१ [क] व्याप्यस्य पक्षवृत्तित्वधीः (भा० प० २ श्लो० ६९ ) /
• व्याप्तिविशिष्टस्य हेतोः पक्षेण सह वैशिष्ट्यावगा हिज्ञानमित्यर्थः
(मु० २ पृ० १३६ ) । अयं च परामर्श: अनुमितिकारणम् तृतीयं
लिङ्गज्ञानमित्युच्यते । अत्रायं कार्यकारणभावः । तद्वत्ताज्ञानं प्रति
तद्व्याप्यवत्ताज्ञानं कारणम् । तद्धर्मावच्छिन्नविधेयकानुमितौ तद्धर्मा
वच्छिन्नव्याप्यवत्ताज्ञानं कारणम् इति यावत् (न्या० म० ४ पृ०
 
३३ ) ।