2023-10-28 18:43:25 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

न्यायकोशः ।
 
४७३
 
न्यष्टौ
 
कृष्णः इति वल्लभीयाः । परमेश्वरः इति पातञ्जला: । बुद्धः सर्वज्ञो वा

इति बौद्धाः । अर्हन्नित्यार्हताः । पराख्यः शब्द एव इति शाब्दिकाः ।

काल एव इति ज्योतिषज्ञाः । लोकव्यवहारसिद्ध एव परमात्मा इति

चार्वाकाः। विश्वकर्मा इति कारव उपासते । तत्र निलेश्वरं न मन्यन्ते

सांख्या आर्हताश्चार्वाकाश्च ( कु० टी० ११२ ) । न्यायनये परमात्म-

गुणा वर्तन्ते । एकत्वसंख्या परममहत्परिमाणम् एकपृथ-

क्त्वम् संयोगः विभाग: बुद्धिः इच्छा प्रयत्नश्चेति ( भा०प० श्लो० ३४ ) ।

अपरिमिता अप्राकृता ज्ञानानन्दादयो गुणाः परमात्मनि सन्ति इति

माध्वा जगुः । परमात्मा गुणशून्य एव इति मायावादिनो मन्यन्ते ।
रमा

 
<परमा
पूर्वम्>
( अपूर्वम्) [ क ] यत्र स्वर्गादिफलं प्रति दर्शपूर्णमा-

काम: इत्यादौ प्रधानविधिबोधितं दर्शपूर्णमासात्मकयागद्वयजन्यमपूर्वम्

जन्यत्वेन जनकत्वम् तत्परमापूर्वम् । यथा दर्शपूर्णमासाभ्यां यजेत स्वर्ग

( दि० गु० पृ० २३५ ) ( चि० ४ ) ( मू० म० ) । ख

कलिकापूर्वजन्यः स्वर्गादिफलसाधनमपूर्वविशेषः । अत्र परमापूर्वी वाच्यम्

कलिका पूर्वाणि तु कल्प्यानि इति मीमांसकानां सिद्धान्तः ( त०

प्र० ख० ४ पृ० ११४) । कलिकापूर्व प्रदर्शितं प्राक् (पृ० २१७) ।

 
<प
रमेश्वरः ->
क्लेशकर्मविपाकाशयैरपरामृष्टः पुरुषः खेच्छया निर्माणकायम-

ष्ठ लौकिकवैदिकसंप्रदायप्रवर्तकः संसाराङ्गारे तप्यमानानां प्राण-

मृतामनुप्राहकश्च ( सर्व० सं० पृ० ३३३ पातञ्ज ० ) ।
रस्परम् -

 
<परस्परम्>
अन्योन्यशब्दवदस्यार्थोनुसंधेयः ( ल० म० ) ।

 
<प
रस्मैपदम्>
( तिङ् ) [क] ल: परस्मैपदम् (पा० ११४ / ९९ ) ।

( चाच० ) । परस्मैपदं च तिप् तस् झि इत्यादि नवविधम् । [ख]

अत्र व्युत्पत्तिः । परस्मै परोद्देशार्थफलकं पदम् इति ( अल्लुक्समासः )

क्यजन्तघातोरर्थस्य स्वार्थे कर्तृत्वेन्वयबोधनक्षमं यादृशमाख्यातम् तत्

परस्मैपदम् । यथा पुत्रीयतीत्यादौ परस्मैपदम् (तिप् ) । घातिता घाति-

तारी इत्यादौ आत्मनेपदानां निरुक्ताख्यातत्वेपि तदन्यत्वेन विशेषणान

तत्रातिव्याप्तिः । अत्र पुत्रीयतीत्यादावेव पुत्रादीच्छा कर्तृत्वमाश्रयत्व-

६० न्या० को०