This page has not been fully proofread.

न्यायकोशः ।
 
४७३
 
न्यष्टौ
 
कृष्णः इति वल्लभीयाः । परमेश्वरः इति पातञ्जला: । बुद्धः सर्वज्ञो वा
इति बौद्धाः । अर्हन्नित्यार्हताः । पराख्यः शब्द एव इति शाब्दिकाः ।
काल एव इति ज्योतिषज्ञाः । लोकव्यवहारसिद्ध एव परमात्मा इति
चार्वाकाः। विश्वकर्मा इति कारव उपासते । तत्र निलेश्वरं न मन्यन्ते
सांख्या आर्हताश्चार्वाकाश्च ( कु० टी० ११२ ) । न्यायनये परमात्म-
गुणा वर्तन्ते । एकत्वसंख्या परममहत्परिमाणम् एकपृथ-
• क्त्वम् संयोगः विभाग: बुद्धिः इच्छा प्रयत्नश्चेति ( भा०प० श्लो० ३४ ) ।
अपरिमिता अप्राकृता ज्ञानानन्दादयो गुणाः परमात्मनि सन्ति इति
माध्वा जगुः । परमात्मा गुणशून्य एव इति मायावादिनो मन्यन्ते ।
रमा पूर्वम् – ( अपूर्वम्) [ क ] यत्र स्वर्गादिफलं प्रति दर्शपूर्णमा-
काम: इत्यादौ प्रधानविधिबोधितं दर्शपूर्णमासात्मकयागद्वयजन्यमपूर्वम्
जन्यत्वेन जनकत्वम् तत्परमापूर्वम् । यथा दर्शपूर्णमासाभ्यां यजेत स्वर्ग
( दि० गु० पृ० २३५ ) ( चि० ४ ) ( मू० म० ) । ख
कलिकापूर्वजन्यः स्वर्गादिफलसाधनमपूर्वविशेषः । अत्र परमापूर्वी वाच्यम्
कलिका पूर्वाणि तु कल्प्यानि इति मीमांसकानां सिद्धान्तः ( त०
प्र० ख० ४ पृ० ११४) । कलिकापूर्व प्रदर्शितं प्राक् (पृ० २१७) ।
रमेश्वरः -क्लेशकर्मविपाकाशयैरपरामृष्टः पुरुषः खेच्छया निर्माणकायम-
ष्ठ लौकिकवैदिकसंप्रदायप्रवर्तकः संसाराङ्गारे तप्यमानानां प्राण-
मृतामनुप्राहकश्च ( सर्व० सं० पृ० ३३३ पातञ्ज ० ) ।
रस्परम् - अन्योन्यशब्दवदस्यार्थोनुसंधेयः ( ल० म० ) ।
रस्मैपदम् – ( तिङ् ) [क] ल: परस्मैपदम् (पा० ११४ / ९९ ) ।
( चाच० ) । परस्मैपदं च तिप् तस् झि इत्यादि नवविधम् । [ख]
अत्र व्युत्पत्तिः । परस्मै परोद्देशार्थफलकं पदम् इति ( अल्लुक्समासः )
• क्यजन्तघातोरर्थस्य स्वार्थे कर्तृत्वेन्वयबोधनक्षमं यादृशमाख्यातम् तत्
परस्मैपदम् । यथा पुत्रीयतीत्यादौ परस्मैपदम् (तिप् ) । घातिता घाति-
तारी इत्यादौ आत्मनेपदानां निरुक्ताख्यातत्वेपि तदन्यत्वेन विशेषणान
तत्रातिव्याप्तिः । अत्र पुत्रीयतीत्यादावेव पुत्रादीच्छा कर्तृत्वमाश्रयत्व-
६० न्या० को०