2023-10-28 18:39:45 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

न्यायकोशः ।
 
४७१
 
कर्तृत्वम् (सि० च० १ पृ० १०) । अथवा नित्यज्ञानादिमखेन

सर्वोत्कृष्टत्वम् ( त० प्र० १ १० ४ ) । ईश्वरस्य तज्ज्ञानादेर्नित्यत्व-

मित्थम् । सर्गाद्यवसरे परमाणुना व्यणुकं करिष्यामि इति ज्ञानस्यावश्य-

तदुत्पादकशरीरादिकारणकलापस्य तदानीं व्यतिरेकेण तस्य नित्य-

त्वमुररीकुर्मः । एवम् ईश्वरेच्छाकृत्योरपि नित्यत्वम् ( सि० च० १

पृ० १०) । परमात्मलक्षणं चेश्वरत्वम् । तच्च नित्यज्ञानाद्यधिक

(त० दी० ) ( सि० १ पृ० १० ) ( राम० ) ।
 
कत्वेन
 
W
 
o
 
Camprsa
 

अत्रादिशब्देनानन्दो गृह्यते । केचित्तु श्रुतिस्थानन्दपदं दुःखाभावपरम्

इत्याहुः । परमात्मसत्त्वे प्रमाणम् अनुमानम् । तच्च क्षिव्यङ्कुरादिकं

कर्तृजन्यं कार्यत्वाद्धटवत् इति । क्षित्यादिमहाकार्यान्यानु

स्वीक्रियते ( प्र० प्र० ) । तदुक्तम् । कार्यायोजनधृत्यादेः पदात्

प्रत्ययतः श्रुतेः । वाक्यात्संख्याविशेषाच साध्यो विश्वविदव्ययः ॥ इति

( कु० ५।१ ) । संज्ञाकर्म त्वस्मद्विशिष्टानां लिङ्गम् । प्रत्यक्षप्रवृत्तस्वात्

संज्ञाकर्मण: (वै० सू० २।१।१८-१९) । तदर्थं चाह । क्षियङ्करा-

30 दिकं कार्य स्वर्गापूर्वादि नाम च । लिङ्गमीश्वरसद्भावे काणादाः संप्र-

चक्षते ॥ (त० व० आ० श्लो० ९७ पृ० १५५ ) । अधिकं तु

न्यायकन्दल्याम् अनुमानचिन्तामण्यादौ च द्रष्टव्यम् । किंच सर्गादौ

व्यवहारान्यथानुपपत्तिरेवेश्वरसत्त्वे मानम् । यः सर्वज्ञः एकः स एव

चास्माकमीश्वरः (न्या० म० ४ पृ० ५) (सि० च० १ पृ० ११) ।

अत्र द्यावाभूमी जनयन् देव एकः विश्वस्य कर्ता भुवनस्य गोप्ता यः

सर्वज्ञः स सर्वविद्यस्य ज्ञानमयं तपः इत्याद्या आगमा अपि प्रमाणत्वेना-

नुसंघेयाः । अत्र कार्योत्पादने मतमेदाः प्रदश्यन्ते । शरीरमन्तरेणै-

चेश्वरेण मन्त्रादिवत्कार्योत्पादनम् इति केचिन्नैयायिकाः संगिरन्ते । अत्र

सूत्राणि ईश्वर: कारणं पुरुषकर्माफल्यदर्शनात् । न पुरुषकर्माभावे

फलानिष्पत्तेः । तत्कारितत्वादहेतुः (गौ० ४/१/१९-२१) इत्यादी नि ।

शरीरत्वष्टाभावात्परमात्मा शरीररहित एवास्ति । अन्ये तु नैयायिका

इत्यमाडु: । परमात्मा शरीरी । पुरुषादृष्टेन कान्ताशरीरस्येवास्मदीयादृष्टेन
 

 
18
 
Ke