2023-10-28 18:39:05 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

४७०
 
न्यायकोशः ।
 
an
 
<परमाणुः>
१ मूर्तत्वे सति निरवयवः ( त० कौ० ) । स च जन्यद्रव्या-

वयवः क्रियावान् अतीन्द्रियः निरवयवः नित्यश्चेति नैयायिकवैशेषिकाणां

सिद्धान्तः । अत्र सूत्रम् न प्रलयोणुसद्भावात् ( गौ० ४/२/१४) ।

इति । परमाणुनामुत्पत्तिं नाशं च स्वीकुर्वन्ति क्षणभङ्गरवादिनो बौद्धाः ।

( दि० १ पृथिवी० पृ० ६७-६८) । भूतत्वादि परमाणोर्लक्षणमिति

सांख्या आहुः (गौ० वृ० ४।१।३१) । न्यायवैशेषिकनये परमाणु

सद्भावे प्रमाणमुच्यते । जालसूर्यमरीचिस्थं सूक्ष्मतमं यद्रज उपलभ्यते

तत् सावयवम् चाक्षुषद्रव्यत्वात् पटवत् इति । त्र्यणुकावयवोपि सावयवः

स च नित्यः । कार्यत्वेनवस्थाप्रसङ्गात् । असमवेतभावकार्योत्पत्तिप्रसङ्गाञ्च

महदारम्भकत्वात् तन्तुवत् इति । यो ह्यणुकावयवः स एव परमाणुः ।

(मु० १ पृ० ६८-६९) । परमाणुश्च परं वा त्रुटे: (गौ० ४/२/१५)

तथा च मेरुसर्षपयोरपि तुल्यत्वप्रसङ्गः इति ( त० दी० १ पृ० १०)

इति ज्ञेयः । त्रुटेः परं यदतिसूक्ष्मं तत्परमाणुः । वाशब्दोवधारणे

अथवा त्रुटेरवयवस्तदवयवो वा परमाणुरिति विकल्पार्थो वाशब्दः / यद्वा

त्रुटेः परं सूक्ष्मं परमाणु: । त्रुटावेव वा विश्रामः इति विकल्पोभिमतः

( गो० वृ० ४/२/१५ ) । इदं च नवीनमतम् ( दि० १पृ० ६९//

अवयवविभागस्यानवस्थाना द्रव्याणामसंख्येयत्वा त्रुटिनिवृत्तिरिति (वात्स्या

४/२/१५) । स चायमल्पतरप्रसङ्गो यस्मान्नाल्पतरमस्ति

परमोल्पस्तत्र निवर्तते । यतश्च नाल्पीयोस्ति तं परमाणुं प्रचक्ष्महे इति

( वात्स्या० ४।२।१४) । यथा जालसूर्यमरीचिस्थं यत्सूक्ष्मं दृश्यते

रजः । तस्य षष्ठतमो भागः परमाणुः स उच्यते ॥ इति (वाक्य ० ) ।

भ्रमो यतः ॥ इति बादरायणाचार्यो आहुः ( भाग० ३/१२/१ ) ।

२ परमाण्ववच्छिन्नकालविशेषः । यथा स काल: परमाणुर्वै यो
 

परमाणुताम् (भाग० ३।११।५ ) इत्यादौ ।
 
की स
 
' परमात्मा -

 
<परमात्मा>
( आत्मा ) [क सर्वस्य द्रष्टा सर्वस्य भोक्ता सर्वज्ञः

भावी (वात्स्या० ११११९ ) । परमत्वं चात्र प्रकृतेः सृष्टिस्थिति-
सर्वानु
 
यः