2023-10-28 18:38:11 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

४६९
 
न्यायकोशः ।
 
७ त्रयाणां समवाय्यसमवायिनिमित्तानां विनाशादपि यथा यदापेक्षाबुद्धि-

रुत्पद्यते तदैव पिण्डावयवे कर्म । ततो यस्मिन्नेव काले कर्मणावय-

वान्तराद्विभागः परत्वस्योत्पत्तिः तस्मिन्नेव काले पिण्डेपि कर्म ।

ततो विभागात् पिण्डारम्भकसंयोगविनाशः पिण्डकर्मणा च दिक्-

पिण्डविभागः तदैव सामान्यबुद्धेश्वोत्पत्तिरित्येकः कालः । ततः

संयोगविनाशात् पिण्डनाशः । विभागाच्च दिपिण्डसंयोगविनाशः ।

सामान्यज्ञानादपेक्षाबुद्धेर्विनाशः
 
इत्यतः युगपत्रयाणां समवाय्य-

समवायिनिमित्तानां विनाशात् परत्वस्य विनाशः इति ( प्रशस्त ०

पृ० २१ - २३ ) । २ [क] प्रतिपादकेच्छाविषयत्वम् ( चि० ) ।

तच्च शाब्दबोधप्रयोजकं तात्पर्यापरपर्यायम् । यथा हरिशब्दः सिंहपरः

इत्यादौ । यथा वा सैन्धवमानयेत्यादौ भोजनसमये सैन्धवपदस्य

लवणपरत्वम् इत्यादौ । [ख तत्प्रतीतीच्छयोच्चरितत्वम् ( चि० १)

( मू० म० ) । यथा यत्परः शब्दः स शब्दार्थः इत्यादौ । ३ अधिक-

देशवृत्तित्वम् व्यापकत्वं वा । यथा सामान्यं द्विविधं प्रोक्तं परं चापरमेव

च (भा०प० श्लो० ८) इत्यादौ सत्ताया द्रव्यत्वमपेक्ष्य द्रव्यत्वादेव

पृथिवीत्वाद्यपेक्ष्य व्यापकत्वात् परत्वम् (मु० १ पृ० ३४ ) । ४

सूक्ष्मत्वम् । यथा परं वा त्रुटे: (गौ० ४।२।१५) इत्यादौ त्रुटिमपेक्ष्य

परमाणोः परत्वम् । ५ मिन्नत्वम् । ६ श्रेष्ठत्वम् । यथा द्वे ब्रह्मणी

वेदितव्ये परं चापरम् (श्रुतिः ) इत्यादौ । ७ ब्रह्मण आयुःकालविशेषः

इति पौराणिका आहुः । अत्रोक्तम् । निजेन तस्य मानेन चायुर्वर्षशतं

स्मृतम् । तत्पराख्यं तदर्धे च परार्धमभिधीयते ॥ त्रीणि कल्पशतानि

स्युस्तथा षष्टिर्द्विजोत्तमाः । ब्रह्मणः कथितं वर्षे पराख्यं तच्च यत्पदम् ॥

इति ( कूर्म० अ० ५) ( वाच० ) । ८ शत्रुत्वम् इति काव्यज्ञा
 

आहुः (वाच० ) ।
 

 
<
परममुक्ति:>
( निःश्रेयसम्) समानाधिकरण विशेषगुणावच्छिन्नसवासन-

मिथ्याज्ञानध्वंस: ( न्या० सि० दी० ) । यथा शुकभीष्मयुधिष्ठिरादीनां
 

परममुक्तिः ।