This page has not been fully proofread.

न्यायकोशः ।
 
४६७
 
द्रष्टुः संनिकृष्टमवधिं कृत्वा तस्माद्विप्रकृष्टोयम् इति परत्वाधारे विप्रकृष्टा
बुद्धिरुत्पद्यते । ततस्तामपेक्ष्य परेण दिक्प्रदेशेन संयोगात्परत्वस्योत्पत्तिः ।
विप्रकृष्टं चावधिं कृत्वा परस्मात् संनिकृष्टोयम् इत्यपरत्वाधार इतरस्मिन्
संनिकृष्टा बुद्धिरुत्पद्यते । तामपेक्ष्यापरेण दिग्देशेन संयोगादपरत्वस्यो-
त्पत्तिः ( प्रशस्त० पृ० २० - २१ ) । अत्र द्विविधयोः परत्वापरत्वयो-
र्नाशकोपेक्षाबुद्धिनाशः इति मुक्तावलीकार आह । उपस्कारे तु त्रिविध-
कारणनाशस्यैव परत्वापरत्वनाशकत्वमुक्तम् (वै० वि० ७/२/२१ ) ।
नाशो दैशिकयोर्ज्ञेयः सप्तधा शांकरे मते । निमित्तस्य विनाशाद्वासम-
बायिन एव वा ॥ समवायिविनाशाद्वा निमित्तासमवायिनोः । नाशाद्वापि
विनाशाद्वा निमित्तसमवायिनोः ॥ निमित्तभिन्नयोर्वापि नाशात्कारणयोः
क्वचित् । विनाशादपि सर्वेषां हेतूना मेकदैव वा ॥ इति ( त०व० २१०) ।
अथ परत्वापरत्वयोः कालकृतयोरुत्पत्तिरभिधीयते । वर्तमानयोरनियत-
दिग्देशसंयुक्तयोर्युवस्थविरयो रूढश्मश्रु कार्कश्यवलीपलितादिसानिध्ये सत्ये-
कस्य द्रष्टुर्युवानमंवधिं कृत्वा स्थविरे विप्रकृष्टा बुद्धिरुत्पद्यते । ततस्ताम-
पेक्ष्य परेण कालप्रदेशेन संयोगात्परत्वस्योत्पत्तिः । स्थविरमवधिं कृत्वा
Emai
यूनि संनिकृष्टा बुद्धिरुत्पद्यते तदा तामपेक्ष्यापरेण कालप्रदेशेन संयोगाद-
परत्वस्योत्पत्तिः ( प्रशस्त० पृ० २१ ) । इदं च बोध्यम् । त्रिधा
कालिकयोर्नाशः समवायिविनाशतः । निमित्तनाशतो वाभ्यामुभाभ्यां
वापि कुत्रचित् ॥ निमित्तमात्रनाशेन तन्नाशः कस्यचिन्मते इति
( त० व० २११ ) । विनाशस्त्वपेक्षा बुद्धिसंयोगद्रव्यनाशात् इति प्रश-
स्तपादाचार्याः ( प्रशस्त ० पृ० २१) । १ अपेक्षाबुद्धिविनाशात् २ संयो-
गविनाशात् ३ द्रव्यविनाशात् ४ द्रव्यापेक्षाबुद्ध्योर्युगपद्विनाशात् ५ द्रव्य-
संयोगविनाशात् ६ संयोगापेक्षाबुद्ध्योर्युगपद्विनाशात् ७ त्रयाणां समवाय्य -
समवायिनिमित्तानां विनाशाचेति तदर्थः । तथाहि । १ उत्पन्ने परत्वे
यस्मिन्काले सामान्यबुद्धिरुत्पन्ना भवति ततोपेक्षाबुद्धिविनश्यत्ता सामान्य-
ज्ञानतत्संबन्धेभ्यः परत्वगुणबुद्धेरुत्पद्यमानतेत्येकः कालः । तत्रापेक्षाबुद्धे
१ असमवायिनः इति पदच्छेदः ।