न्यायकोशः /519
This page has been fully proofread once and needs a second look.
४६५
हेत्वाभासः छलम् जाति: निग्रहस्थानम् इत्येते षोडश पदार्था: इति
गौतमप्रधाना नैयायिका आहुः । प्रकृतिर्विकृतिरुभ्यमनुभ॑यमिति भेदेन
चत्वारः पदार्थाः संकलनया पञ्चविंशतिः इति सांख्याः पातञ्जलाश्चाद्दुः ।
तुतातभट्टमतानुयायिनां मते द्रव्यगुणकर्मसामान्यरूपाश्चत्वार एव पदार्थाः ।
प्राभाकरमते द्रव्यगुणकर्मसामान्यसंख्यासमवायसादृश्यशक्तयः इत्यष्टौ
पदार्था: (वै० वि० ) ( प० मा० ) ।
<पद्मकः
सषष्ठीसप्तमीयोगे वारश्चेदंशुमालिनः । पद्मको नाम योगोयं
सहस्त्रार्क हैः समः ॥ (पु० चि० पृ० १०५) ।
१६
-
<परकृतिः
( अर्थवादः ) [क] अन्यकर्तृकस्य व्याहतस्य विधेर्वादः ।
( वात्स्या० २।१।६४ ) । [ख ] पुरुषविशेषनिष्ठमिथोविरुद्धकथनम् ।
यथा हुत्वा वपामेवाग्रेभिघारयन्ति अथ पृषदाज्यं तदुह चरकाध्वर्यवः
पृषदाज्यमेवाग्रेभिघारयन्ति अग्ने: प्राणाः पृषदाज्य मित्येवमभिदधति
( श्रुतिः ) इत्येवमादि ( गौ० वृ० २ । १ । ६४ ) (वात्स्या० २।१।६४ ) ।
[ग] एककर्तृकमुपाख्यानं परकृतिः ( भादी० ६/७/२६)।
परतत्रम् - १ इतरसत्ताधीनसत्ताकम् । यथा राजभृत्यः परतन्त्रः । २
क्वचित् स्वेतरबहिर्विषयकज्ञानजनक सामग्रीसापेक्षम् ( त० प्र० १ ) । यथा
मनश्चाक्षुषादिप्रत्यक्षे परतन्त्रम् ( सर्व० पृ० ९ चार्वा० ) ( त० भा० ) ।
परत्वम् – १ ( गुणः ) [ क ] पराभिधानप्रत्ययनिमित्तम् । तत्तु द्विविधम् ।
दिक्कृतम् काळकृतं च । तत्र दिक्कृतम् दिग्विशेषप्रत्यायकम् । कालकृतं
च वयोभेदप्रत्यायकम् ( प्रशस्त० पृ० २० ) । क्रमेणोदाहरणं
यथा गण्डौ कपोलौ तत्परे हनू ( अमरः २१६ १९० ) इत्यादौ परश्वस्त -
त्परेहनि (अमरः ३।४।२२ ) इत्यादौ च । अत्र सूत्रम् एकदिक्काभ्यामेक-
कालाभ्यां संनिकृष्टविप्रकृष्टाभ्यां परमपरं च ( वै० ७१२/२१ ) इति ।
परत्वस्य लक्षणं च परव्यवहारजनकतावच्छेदकतादृशप्रकारताश्रयत्वम्
( वाक्य ० १ पृ० ८ ) । अत्र नव्याः बहुतरप्रदेशसंयोगान्तरितत्वरूप-
विप्रकृष्टत्व बहुत रसूर्यपरिस्पन्दान्तरितजन्यत्वरूपज्येष्ठत्वाम्यां दैशिककालि
O
५९ न्या० को०