2023-10-28 18:32:49 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

४६४
 
न्यायकोशः ।
 
गुणे । अपार्थकस्य गुणे । अप्राप्तकालस्य गुणे । न्यूनस्य गुणे ।

एवं अधिकस्य गुणे । पुनरुक्तस्य गुणे । अननुभाषणस्याभावे । अज्ञानस्या-

भावे । अप्रतिभाया अभावे । विक्षेपस्याभावे । मतानुज्ञाया गुणे ।

पर्यनुयोज्योपेक्षणस्याभावे । निरनुयोज्यानुयोगस्य गुणे । अपसिद्धान्त-

स्याभावे । हेत्वाभासानां द्रव्यादिषु अन्तर्भावः इति ( दिन० १

पृ० २० - २२ ) ( नील० पृ० ४५ ४६ ) । सामान्यादयः पदार्था

अलीका एव इति विज्ञानवादिनो वौद्धा आहुः ( राम० १) । दर्शनभेदेन

मतभेदेन च पदार्था नानाविधाः । तथाहि विषयता तत्त्वादिवत् प्रति-

योगित्याधिकरणत्वतत्त्व संबन्धत्वादयोप्यतिरिक्ता एव पदार्थाः इत्येकदेशिन

आहुः ( दीधि ० २ सिद्धा० ल० पृ० ४१ ) । चिदचिदात्मको द्वौ

पदार्थों इति मायावादिनो वेदान्तिन आहुः । चिदचिदीश्वरभेदेन त्रयः

पदार्था इति रामानुजीयाः । स्वतन्त्रपरतन्त्रभेदेन द्वौ पदार्थों इति माध्वाः ।

पतिपशुपाशभेदेन त्रयः पदार्थाः इति शैवा नाकुलीशाश्चाहुः । द्रव्यम्

गुणः कर्म सामान्यम् विशेषः समवायः एते षट् पदार्था इति कणाद-

प्रधाना वैशेषिका आहुः । अत्र भाष्यम् प्रमेयाः पदार्थाः इति

( प्रशस्त० पृ० २६ ) । एते भावपदार्थाः । नञर्थानुल्लिखितधीविषयतया

भावरूपतया षडेवेति विवक्षिताः इति ( सर्व० पृ० २१४ औलू० ) ।

तथा च सूत्रम् धर्मविशेषप्रसूतात् द्रव्यगुणकर्मसामान्यविशेषसमवायानां

पदार्थानां साधर्म्यवैधर्म्याम्यां तत्त्वज्ञानान्निःश्रेयसम् ( ० १ । १४ )

इति । अभावस्तु कारणाभावात्कार्याभावः (वै० ११२ १ ) (९२१११-

१०) इत्यादिसूत्रज्ञापितः इति बोध्यम् (त०व० ) (वै० वि० ११११४) ।

अत्र न्यायलीलावतीकाराः । अभावश्च वक्तव्यः निःश्रेयसोपयोगित्वा-

द्भावप्रपञ्चवत् । कारणाभावेन कार्याभावस्य सर्वसिद्धत्वादुपयोगित्वसिद्धेः

इत्याहुः । न्यायाचार्यास्तु द्रव्यकिरणावल्याम् एते च पदार्थाः षड्भावाः

प्रधानतयोद्दिष्टाः । अभावस्तु स्वरूपवानपि नोद्दिष्टः । प्रतियोगिनिरू-

पणाधीननिरूपणत्वात् न तु तुच्छवत् इत्यभावः सप्तमः पदार्थः इत्य-

जीचक्रुः (वै० वि० ११११४ ) । प्रमाणम् प्रमेयम् संशयः प्रयोजनम्