2023-10-28 18:31:02 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

न्यायकोशः ।
 
-
 
पतित्वम् –
<पतित्वम्>
निरतिशय दृक्रियाशक्तिमत्त्वरूपेणैश्वर्येण नित्यसंबन्धित्वम् ।
पदम् -

 
<पदम्>
१ [क] ते विभक्तयन्ताः पदम् ( गौ० २१२१६० ) । यथा-

दर्शनं विकृत वर्णा विभक्तयन्ताः पदसंज्ञा भवन्ति । विभक्तिर्द्वयी ।

नामिकी आख्यातिकी च । ब्राह्मणः पचति इत्युदाहरणम् । उपसर्ग-

निपातास्तर्हि न पदसंज्ञा: । लक्षणान्तरं वाच्यमिति । शिष्यते च खलु

नामिक्या विभक्तेरव्ययाल्लोपः तयोः पदसंज्ञार्थमिति । पदेनार्थसंप्रत्यय

इति प्रयोजनम् । नामपदं चाधिकृत्य परीक्षा गौरिति पदं खल्विदमुदा-

हरणम् (वात्स्या० २१२/६० ) ( त० कौ० ) । पदत्वं च वृत्तिमत्त्वम्

(गौ० वृ० २१२/६० ) । संकेतवद्वर्णत्वम् (वै० उ० २।२।२१ ) ।

पदानां साधुत्वं च व्याकरणव्यङ्ग्योर्थविशिष्टशब्द निष्ठः पुण्यजनक-

कारणम् । सूत्रे विभक्तयन्तत्वं च शाब्दबोधौपयिक विभक्तिप्रकृतित्वम्

तावच्छेदको जातिविशेष: ( ल० म० ) । पदज्ञानं च शाब्दबोधे

( ग० अव० हेतु ० ) । [ख ] वर्णसमूहः । समूहश्चात्रैकज्ञान विषय-

भाव एव । अत्रोच्यते । वर्णाः पदं प्रयोगार्हानन्वितैकार्थबोधकाः इति

( सा० ६० परि० २ श्लो० २) । एवं तत्र वर्णानां क्रमवतामाशुतर-

विनाशित्वेनैकदानेकवर्णानुभवासंभवात् पूर्वपूर्ववर्णाननुभूयान्त्यवर्णश्रवण-

काले पूर्ववर्णानुभवजनित संस्कारसह कृतेनान्त्यवर्णसंबद्धेन पदव्युत्पादन-

समयग्रहणानुगृहीतेन श्रोत्रेणैकदैव सदसदनेकवर्णावगाहिनी पदप्रतीति-

जेन्यते । सहकारिसामर्थ्यात्प्रत्यभिज्ञावत् । प्रत्यभिज्ञाप्रत्यक्षे हि अतीतापि

पूर्वावस्था स्फुरत्येव इति ( त० भा० प्रमा० ४ पृ० १८-१९ ) ।
 

[च ] वाक्यैकदेशः पदम् इति केचिदाहुः । न्यायनये पदं द्विविधम् ।

अर्थबोधकम् । [ङ ] सुप्तिङन्तं पदम् इति शाब्दिका वदन्ति ।

मुख्यमपि चतुर्विधम् । यौगिकम् रूढम् योगरूढम् यौगिकरूढं चेति ।

मुख्यम् । यथा गोघटादिव्यत्त्युपस्थापकं गोघटादिपदम् ( त० कौ० ) ।

तत्राद्यं पाचकादिपदम् । द्वितीयं ब्राह्मणवाचकं विप्रपदम् गोमण्डपादि-