न्यायकोशः /515
This page has not been fully proofread.
न्यायकोशः ।
-
पतित्वम् – निरतिशय दृक्रियाशक्तिमत्त्वरूपेणैश्वर्येण नित्यसंबन्धित्वम् ।
पदम् - १ [क] ते विभक्तयन्ताः पदम् ( गौ० २१२१६० ) । यथा-
दर्शनं विकृत वर्णा विभक्तयन्ताः पदसंज्ञा भवन्ति । विभक्तिर्द्वयी ।
नामिकी आख्यातिकी च । ब्राह्मणः पचति इत्युदाहरणम् । उपसर्ग-
निपातास्तर्हि न पदसंज्ञा: । लक्षणान्तरं वाच्यमिति । शिष्यते च खलु
●नामिक्या विभक्तेरव्ययाल्लोपः तयोः पदसंज्ञार्थमिति । पदेनार्थसंप्रत्यय
इति प्रयोजनम् । नामपदं चाधिकृत्य परीक्षा गौरिति पदं खल्विदमुदा-
हरणम् (वात्स्या० २१२/६० ) ( त० कौ० ) । पदत्वं च वृत्तिमत्त्वम्
(गौ० वृ० २१२/६० ) । संकेतवद्वर्णत्वम् (वै० उ० २।२।२१ ) ।
पदानां साधुत्वं च व्याकरणव्यङ्ग्योर्थविशिष्टशब्द निष्ठः पुण्यजनक-
• कारणम् । सूत्रे विभक्तयन्तत्वं च शाब्दबोधौपयिक विभक्तिप्रकृतित्वम्
तावच्छेदको जातिविशेष: ( ल० म० ) । पदज्ञानं च शाब्दबोधे
( ग० अव० हेतु ० ) । [ख ] वर्णसमूहः । समूहश्चात्रैकज्ञान विषय-
भाव एव । अत्रोच्यते । वर्णाः पदं प्रयोगार्हानन्वितैकार्थबोधकाः इति
( सा० ६० परि० २ श्लो० २) । एवं तत्र वर्णानां क्रमवतामाशुतर-
विनाशित्वेनैकदानेकवर्णानुभवासंभवात् पूर्वपूर्ववर्णाननुभूयान्त्यवर्णश्रवण-
काले पूर्ववर्णानुभवजनित संस्कारसह कृतेनान्त्यवर्णसंबद्धेन पदव्युत्पादन-
समयग्रहणानुगृहीतेन श्रोत्रेणैकदैव सदसदनेकवर्णावगाहिनी पदप्रतीति-
जेन्यते । सहकारिसामर्थ्यात्प्रत्यभिज्ञावत् । प्रत्यभिज्ञाप्रत्यक्षे हि अतीतापि
पूर्वावस्था स्फुरत्येव इति ( त० भा० प्रमा० ४ पृ० १८-१९ ) ।
[च ] वाक्यैकदेशः पदम् इति केचिदाहुः । न्यायनये पदं द्विविधम् ।
अर्थबोधकम् । [ङ ] सुप्तिङन्तं पदम् इति शाब्दिका वदन्ति ।
मुख्यमपि चतुर्विधम् । यौगिकम् रूढम् योगरूढम् यौगिकरूढं चेति ।
मुख्यम् । यथा गोघटादिव्यत्त्युपस्थापकं गोघटादिपदम् ( त० कौ० ) ।
तत्राद्यं पाचकादिपदम् । द्वितीयं ब्राह्मणवाचकं विप्रपदम् गोमण्डपादि-