This page has not been fully proofread.

न्यायकोशः ।
 
(पृ० १६) । २ क सिषाधयिषा विरह सहकृतसाधकमानाभावः
(चि० २ पृ० ३४ ) । अत्रायमर्थः । सिषाधयिषा अनुमित्सा ।
• साधकमानं सिद्धिः । साध्यनिश्चयः इति यावत् । एवं च सिद्धिर-
मित्युदयात् । तथा च अनुमित्साविरहविशिष्टसिद्धिर्विरोधिनी । तदभावः
नुमितिविरोधिनी । अतः तत्र सिषाधयिषोत्तेजिका वाच्या तत्सत्त्वेनु-
पक्षता इति पर्यवसितोर्थ : ( म० प्र० २ पृ० २३ ) । अत्रेदं बोध्यम् ।
श्रवणसंबद्धमात्रे घनगर्जिते इदं घनीयं गर्जित विशेषत्वात् इत्यनुमान
• विहितत्वेन तत्र संशयाभावात् साध्यनिश्चये प्रत्यक्षेपि वही सत्यप्यनु
संशयं विनाप्यानुभाविकत्वात् संशय विघटकशाब्दसिद्ध्यनन्तरं अनुमिते-
● मित्सायां सत्यामनुमिते रुत्पत्तेश्च तन्निर्वाहार्थं नव्यमतानुसारेणेयं पक्षतानु-
• मितिप्रयोजिका इति ( न्या० म० २ पृ० १९ ) ( म० प्र० २
पृ० २४ ) ( त० दी० २ पृ० २४ ) । अयमाशयः । गगनविशेष्य-
• गगन मेघवत् इत्याकारकगगनत्वावच्छिन्नोद्देश्यता निरूपित मेघत्वावच्छिन्न-
कमेघप्रकारकसंदेहाभावदशायामपि गृहमध्यस्थपुरुषस्य घनगर्जितश्रवणेन
• विधेयता कानुमितिदर्शनात् प्राचीनलक्षणं विहाय नवीनैः अनु
• सिपाधयिषामात्रं न पक्षता । विनापि सिषाधयिषां घनगर्जितेन मेघानु-
पक्षत्वम् इति स्थिरीकृतम् ( न्या० बो० २ पृ० १६-१७) । एवं
मानात् । अतः संशयस्य सिषाधयिषायाश्च पक्षतात्वं तिरस्कृत्य सिद्धान्त-
• सिद्धेयं पक्षता स्वीकृतेति भावः । संशयविघटकशाब्दसिद्ध्यनन्तरमनुमितिश्च
ध्यासितव्यः इत्यादिश्रुत्या श्रवणानन्तरं मननं अनुमितिरूपं विहितम् ।
वेदान्तवाक्यैर्विहिता यथा आत्मा वारे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदि-
तथा च तन्त्रात्मनस्तादृशवेदवाक्येन निश्चितत्वेन संशयाभावाद्व्यभिचारः
● स्यादिति ।[ख] सिषाधयिषाविरहविशिष्टसिद्व्यभावः ( न्या० म० २
पृ० १९) ( भा० १० श्लो० ७१) । अत्रेदं बोध्यम् । सिद्धिः
पर्वतो वह्निमान् इति निश्चयः । तस्य सत्त्वे पर्वतो वह्निमान् इत्यनुमितेर-
वक्तव्यम् । एवं सत्यपि पर्वतादौ पक्षे साध्यनिश्चये सत्यपि त्यांच
● सिषाधयिषायां पर्वतो वह्निमान् इत्यनुमित्युत्पत्तिदर्शनात्तत्र प
नुत्पत्तेः सिद्धिरनुमितौ प्रतिबन्धिका । सिद्ध्यभावोनुमितौ कारणमिति
 
४५३
 
-